________________
३९८
काव्यमाला।
दृष्ट्वा खलोचनगोचरीकृत्य । क इव । रुच्य इव । यथा चण्डस्त्वत्यन्तकोपनः स्त्री चेञ्च. ण्डिका कृतं कोपं कथमप्यनुज्झन्या स्त्रिया कान्तः शूद्रीमभिसरन् हीयते त्यज्यते ॥
प्रेक्ष्य क्षपाक्षये चन्द्रं विद्राणं चन्द्रगोलिका ।
त्यक्त्वा कान्तं ययौ क्वापि पुंश्चलीव यदृच्छया ॥ ३५ ॥ चन्द्रगोलिका विशदचन्द्रिका कान्तं खभर्तारमर्थतो विभावरीवल्लभं त्यक्त्वा मुक्त्वा. संत्यज्य क्वापि कुत्रापि खरुचिते स्थाने यदृच्छया स्वेच्छया ययौ प्रयातवती । किं कृत्वा । क्षपाया निशायाः क्षये क्षीणतायां विनाशे विद्राणं निःश्रीकं मृतप्रायं चन्द्र नक्षत्रनायकं प्रेक्ष्य विभाव्य । केव। पुंश्चलीव । यथा व्यभिचारिणी स्त्री खकान्तं त्यक्त्वा. काप्यभिमते पुंसि प्रयाति ॥
रथाङ्गव्यथनोद्भूतैः पक्रिमैरिव पाप्मभिः ।
त्रियामापगमे राजा तत्यजे वसुभिः क्षणात् ॥ १६ ॥ त्रियामाया निशाया अपगमे विराम विनाशे। क्षये इत्यर्थः । राजा चन्द्रो नृपतिश्च क्षणात् निमेषमात्राद्वसुभिः किरणैर्द्रव्यैश्च तत्यजे परित्यक्तः । 'वसुस्त्वमौ देवभेदे रुचि. योके शुष्के च सुखादे रत्ने वृद्ध्योषधे घने' इत्यनेकार्थाः । उत्प्रेक्ष्यते-रथाङ्गानां चक्रवाकविहंगमानां व्ययनैः परस्परवियोगोत्पादनरुद्भूतैः संजातैस्तथा पक्रिमैः परिपाकं प्राप्तः उदयाचलिकायामुपागतैः परमपाप्मभिरुत्कृष्टदुःकृतैरिव । नृपतिरप्यकराकरकरणदण्डनपरदारगमनग्रहणसप्तव्यसनरोचनादिजनितदुरन्तदुरितैः कृत्वा । द्रव्यादिभिरादिशब्दात् अश्वगजरथपदातिसुभटजनपदपुरग्रामादिरूपलक्ष्मीधनस्त्यज्यते । क्षीणे पुण्ये विधीयमाने च दुर्नये श्रीर्याति । यतः-'पुण्ये सत्यपि लक्ष्मी दुर्नीतिरिहान्तरे क्षयं नयति । तैलेऽनुपभुकेऽपि हि दीपशिखां हन्ति वाताली ॥' इति वचनात् ॥ इति चन्द्रस्यास्ताचलगमनम् ॥
नियय हन्तुं स्वर्भाणुपाशकाढीव पाशिना ।
विधुः पाथोधिसौधेनाधातुं सौहार्दमीयिवान् ॥ ३७॥ . विधुर्वासतेयीविवोढा निशापतिः । पाथोधिरम्भोनिधिः समुद्रः स एव सौधं वासवेश्म यस्य तेन । 'वरुणस्त्वर्णवमन्दिरं प्रचेताः' इति हैम्याम् । पाशः खशात्रवनियन्त्रणदवरकप्रन्थिरस्थास्तीति पांशी वरुणः । 'जलयादःपतिपाशिमेघनादाः' इति हैम्याम् । वरुणाह्रास्त्रं तेन प्रचेतसा साध सौहार्द मित्रमित्रतामाधातुं कर्तुमीयिवान् । तद्धानि जलनिधौ जगाम । उत्प्रेक्ष्यते-पाशकासीव । मित्रीभूताद्वरुणात्पाशं गृहीतुं काति स्पृहयतीत्येवंशील इव । यतः मित्रस्य यद्विलोक्यते तन्निजमित्रात्सद्वस्तु गृह्यते इति रीतिः । किं कर्तुम् । खवैरिणं खर्भाणु विधुतुदं नियन्त्य कथंचित्पाशेन कृत्वा निबध्य हन्तुं कृतान्तनिकेतनातिथीकर्तुम् ॥