________________
हीरसौभाग्यम् ।
चन्द्रश्चङ्कमणक्लान्तं स्वाशनायितरोहितम् । वनाय मोक्तमस्ताद्रेरध्यास्त किमधित्यकाम् ॥ ३२ ॥
चन्द्रो मृगाङ्कः अस्ताद्रेश्चरमाचलस्याधित्यकामूर्ध्वभूमीं सर्वशिरः शिखरकाश्यपीमध्यास्त आश्रयति स्म । उत्प्रेक्ष्यते -- चक्रमणे चतुर्यामीं यावदविश्रमेण निखिलनभोत्रम - णेन क्लान्तं परिश्रान्तं विभातप्रायायां विभावय स्वस्यात्मनः क्रोडानिशलाल्यमानपाल्यमानम् । अथ वाशना या बुभुक्षा संजाता अस्येत्यशनायितं बुभुक्षाक्षाम कुक्षि रोहितमड्रमृगभेदगतकुरङ्गम्। यतो ‘मृगभेदारुरन्यं कुरङ्कुगोकर्णशंवराः । चमूरुचीनत्रमराः समरार्णस्य रोहिषौ । कदलीकन्दली कृष्णसारः पृपतरोहिताः ॥' इति हैम्याम्, तथा 'त्रस्यच्चमूहंचलचक्षुषमाचचक्षे,' तथा 'नश्यत्पृषती विलोचने,' तथा 'पृपतिकशोरी कुरुतामसंगतं कथं मनोवृत्तिमपि द्विपाधिपे' तथा 'मुखं वसत्येष कलङ्करङ्कु:' इत्यादि नैषधे । मृगभेदा मृगा एवोक्ताः सन्तीति । तथैवात्र रोहितनामा मृगभेदविशेषस्तं वनाय चरणार्थं मोक्तमित्र । 'वनाय पीतंप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच' इति रघौ । मोचनार्थमिव ॥
९ सर्गः ]
विभुना वाक्सुधास्पन्दिवदनेन विधुर्जितः ।
तलायै तपः काङ्क्षी बागादस्तादिगहरे ॥ ३३ ॥
३९७
विधुः मृगाङ्कः अस्ताद्रेः प्रतीचीपर्वतस्य गहुरे विविधविटपिकोटिसंकटनिकुञ्जे गुहायां वा आगादाजगाम । उत्प्रेक्ष्यते - तस्य भगवद्वक्रस्य तुला सादृश्यमुपमा तस्या आय प्राप्तये आसादनार्थं तपःकाङ्क्षी तीव्रं तपः कर्तु काङ्क्षन्वाञ्छन् इव । किंभूतो विधु: । `वाचं वाणीमेव सुधाममृतरसं स्पन्दते क्षरत्युद्गिरतीत्येवंशीलेन वदनेन स्वीयाननेन कृत्वा विभुना सूरिणा जितः पराभूतः ॥
दृष्ट्वा यान्तं जघन्यायामन्तर्भूताभ्यसूयया ।
चन्द्रश्चन्द्रिकया रुच्य इव चण्डिकया जहे ॥ ३४ ॥
चन्द्रः कैरविणीरमण: चन्द्रिकया ज्योत्स्नया जहे त्यक्तः । उत्प्रेक्ष्यते - अन्तर्मनोमध्ये भूता प्रकटा जाता अभ्यसूया ईर्ष्या तयेव । किं कृत्वा । जघन्यायां निकृष्टायां जातेर्वा रूपाद्वा श्वपचरूपायामतिकुत्सितायां च । स्वभावतः स्त्रीजातावसूयाबाहुल्यं स्यात्सपत्नीमपि द्रष्टुं न शक्नोति ततोऽन्यस्याः का किंवदन्ती । तत्रापि तां विशुद्धां विवाह्रादायिनीमेकपत्नीं सतीं विहाय मकलङ्कां जगद्विषादविधायिनीं कुरूपां मातङ्गाङ्गनामेोऽभिरत्येषा महीयस्यसूया तयेव कृत्वोज्झितः । अथ च जघन्या पश्चिमा 'अजघन्यः प्रचेताः । नलः किंभूतः । अजघन्यः सर्वोत्कृष्टः । तथा प्रकृष्टमुत्तमत्वोचितं चेतो मनो यत्य । तथा प्रचेता वरुणस्तु सजघन्यः सह जघन्यया प्रतीच्या दिशा वर्तते यः स तदतित्वात्' इति चम्पूकथायाम् । यान्तं गच्छन्तं गमनं कुर्वन्तम्