________________
३९०
काव्यमाला। स्वयं श्रमणशक्रेण ध्यानेनेवानुगामिना।
यदाहूतानुगृह्याहं कारणं तत्प्रसाद्यताम् ॥ ४ ॥ अनुगामिना सेवकेनेव ध्यानेन सूरिमन्त्रस्य प्रणिधानेन स्मरणेन जापेन वा कृत्वा भ्रमणशक्रेण वाचंयमवास्तोष्पतिना खयमात्मना यत्कारणमुद्दिश्य अनुगृह्य ममोपर्यनुग्रहं प्रणीय प्रसादं प्रविधाय अहमाहूता आकारिता तदाकारणं यत्कारणं सहेतुः प्रसाद्यतां निगद्यताम् । ममेति शेषः॥
व्यापार्य कार्ये वचन किंकरी मां कृतार्थय ।
वज्रस्वामीव पद्मस्यार्थने पाथोधिनन्दनाम् ॥५॥ हे प्रभो सूरे, क्वचन कस्मिन्कार्ये कर्तव्ये व्यापार्य आज्ञामनुज्ञा वा प्रदाय दत्वा . किंकरी श्रीमञ्चरणसरोरुहसेविकां मां त्वं कृतार्थय सफलीकुरु । क इव । वज्रस्वामीव । यथा द्वादशाब्दिके दुर्भिक्षे खकप्रावरणकल्पाध्यासनपूर्वकं बौद्ध देशसमानीते तद्वौद्धनृपा. . देशानवाप्तकुसुममात्रविमनायितेन संघेन पर्युपणापर्वणि जिनपूजाकृते कुसुमानयनार्थमभ्यर्थितः खपितुर्मित्रादेशागृहीतविंशतिलक्षकुसुमः श्रीवज्रस्वामी पद्महदे गत्वा लक्ष्म्या प्रेक्ष्य नमस्कृत्य चागमनकारणप्रश्नानन्तरं सहस्रपत्रपद्ममार्गणेन ग्रहणेन पाथोधिनन्दनां समुद्रपुत्रीं श्रियं कृतार्थयामास ॥
निगद्येति जिनाधीशशासनामरसुन्दरी ।
भेजे जोषं मुखे शारदीनेव शिखिमण्डली ॥ ६ ॥ जिनाना सामान्यकेवलिनामधीशस्य तीर्थकरत्वात्स्वामिनः श्रीमहावीरस्य शासनस्यामरसुन्दरी देवाङ्गना इत्यमुना प्रकारेण निगद्य कथयित्वा. मुखे वदने जोषं मौनं भेजे सेवते स्म । 'जोषमासनविशिष्य बभाषे' इति नैषधे । तथा 'तूष्णीं तूष्णीका जोपं च मौने' इति हैम्याम् । मौनं कृत्वा स्थितवतीत्यर्थः । केव । शिखिमण्डलीव । यथा शार. दीना शरत्कालसंबन्धिनी । घनात्ययसमये इत्यर्थः । शिखिमण्डली मयूरमाला मुखे जोषं भजते न ब्रवीतीत्यर्थः । यदुक्तं माघकाव्ये–'समय एव करोति बलाबलं प्रणिगदन्त इतीव मनीषिणः । शरदि हंसरवापरुषीकृतखरमयूरमयूरमणीयताम् ॥' इति ॥
यदास्यकौमुदीकान्तवाक्पीयूषाभिलाषिणी ।
चलचञ्चुचलच्चक्षुरिव सा रभसादभूत् ।। ७ ॥ सा देवी रभसादौत्सुक्यात् चलचञ्चोश्चकोरस्य चलच्चक्षुश्चञ्चललोचना वनिता चकोरी तद्वदभूत्संजाता । किंभूता । यस्य सूरीन्द्रस्य आस्यमाननं तदेव कौमुदीकान्तश्चन्द्रस्तस्य वाग् वाणी एव वचोरूपं वा पीयूषं सुधारसस्तदभिलषति वाञ्छतीत्येवंशीला । 'कणे हत्य चकोरीणां गणः पीत्वा सुधारसम् । अजायत मदेनेव गुञ्जापुञ्जारुणेक्षणाः ॥' इति ज्योत्स्नापाने सत्यपि चकोरीणां सुधापानं कीर्तिकौमुद्याम् ॥ इति गुर्वभिप्रायजिज्ञासया देवीप्रश्नः ॥