________________
९ सर्गः]
हीरसौभाग्यम् ।
३८९ तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयु.
__ क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽजनिष्टाष्टमः ॥ १७१ ॥ पण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यनाममहाकाव्यवृत्तौ अष्टानां सं. ख्यापूरणोऽष्टमः सर्गो बभूव जातः ॥ इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यनाममहाकाव्ये ध्यानविधानशासनदेवीसमागमतत्सर्वाङ्गवर्णनो नामाष्टमः सर्गः ॥
नवमः सर्गः। अथ सा त्रिदशी सूरिपुरहूतपुरो व्यभात् ।
मुक्तिसीमन्तिनीमुक्तदूतीव विवरीषया ॥ १॥ अथ ध्यानविधानसमये पुरः प्रत्यक्षागमनानन्तरं सा पूर्वव्यावर्णितखरूपा त्रिदशी शा. सनदेवता सूरिषु . पुरहूतः पुरंदरो हीरविजयसूरीन्द्रस्तस्य पुरोऽभ्यासे व्यभाद्विभाति स्म । उत्प्रेक्ष्यते-मुक्तिः सिद्धिरेव सीमन्तिनी अत्रार्थात्खयंवरवनिता अथ वा कामुकी अन्या सामान्या वशा तया मुक्ता प्रेषिता दूती शासनहारिकेव । 'शासनहारिणा हरेः' इति रघौ । किं चिकीर्षया । विशेषेण महामहपुरःसरं वरीतुं पाणिं गृहीतुमिच्छया परिणयनाभिलाषेण ॥
वाग्विलासैः सृजन्तीव हारहूरावहेलनाम् । तृणतां च नयन्तीव निक्कणं वेणुवीणयोः ॥ २ ॥ पिकीव पञ्चमोद्गारमृतोः सख्युर्मनोभुवः ।
. गीर्वाणगृहिणी वाणीं श्रमणेन्दोः पुरोऽग्रहीत् ॥ ३ ॥ - सा गीर्वाणगृहिणी शासनसुरी श्रमणेन्दोमुमुक्षुक्षणदारमणस्य पुरः पुरस्ताद्वाणी वाचमाहीजग्राह । वचनमुवाचेत्यर्थः । केव । पिकीव । यथा कोकिला मनोभुवः स्मरस्य सख्युमित्रस्य ऋतोर्वसन्तस्य । 'सखा रतीशस्य ऋतुर्यथा वनम्' इति नैषधे । तथा 'ज. यति मधुसहायः सर्वसंसारवल्ली' इति चम्पूकथायाम् । पुरः अग्रे पञ्चमोद्गारं पञ्चमनाम्ना श्रीराग-वसन्तराग-पश्चमराग-भैरवराग-मेघमल्हारराग-नट्टनारायणराग-एतेषु पट्खपि रागेषु प्रायो विलासिनां पुंसां पञ्चमरागो वल्लभः स्यात् । अतः पञ्चमनाम्नो राग. स्योद्गार ध्वनितं गृहाति । पञ्चमालापं कुरुते इत्यर्थः । उत्प्रेक्ष्यते-देवी वाग्विलासैः खवचनरचनावैचित्रीभिः कृत्वा हारहूरागां गोस्तनीनां द्राक्षाणामवहेलनामवगणनां सृजन्तीव विदधतीव । च पुनर्वेणुवीणयोः वंशविपश्योनिक्कणं मधुरध्वनि तृणतां न किंचित्करतां नयन्ती प्रापयन्तीव ।। युग्मम् ॥