________________
३८२
-काव्यमाला। सरसीजजन्मा पद्मनन्दनः विधाता अस्याः शासनदेवताया वदने मुखे तदीयैनीलारविन्दसंबन्धिभिः किंजल्कवृन्दैः केसरनिकरैः कृत्वा । उत्प्रेक्ष्यते-भ्रूलतिका लोचनो.
रोमपद्धतिवल्ली प्रणीतवान् कृतवानिव । 'प्रणीतवाशैशवशेषवानयं जगजयं तेन च कोशमक्षयम्' इति नैषधे । किं कृत्वा । पुरा प्रथमं नीलारविन्देनाविनिद्रदिन्दीवरेण त्रिदश्या बहिर्मुखयोषितः दृशं विलोचनं प्रणीय खयं विनिर्माय ॥
संस्पर्धिभावं दधता खलक्ष्म्या खण्डेन चण्डेतरकान्तिनेव। . . जग्राह योद्धं त्रिदशीललाटं भ्रूयुग्मकायां करवालयष्टिम् ॥ ११० ॥ त्रिदशीललाटं शासनवृन्दारकसुन्दर्या भालं भ्रूयुग्मं ध्रुवोर्यामलमेव कायः शरीर यस्यास्तादृशीं करवालयष्टिं निकषोल्लिखितनिशितनिस्त्रिंशलता जग्राह गृहयांबभूव । उत्प्रेक्ष्यते-खलक्ष्म्या आत्मीयश्रिया समं संस्पर्धिभावं खवैभवोत्सेकितया स्पर्धनशीलतां दधता बिभ्राणेन खण्डेनार्धेन । 'खण्डेऽर्धशकलं भित्तम्' इति हैम्याम् । चण्डातीक्ष्णादितरा अपरा एतावता अनुष्णा शीता कान्तिः दीप्तिर्यस्य तादृशेन चन्द्रेण सुधादीधितिना एतावताष्टमीतमीरमणेन समं सार्ध योदु संग्राम विधातुमिव । 'खगा. यत्ताखिला पृथ्वी' इति वचनात् ॥ इति भ्रूयुगलम् ॥
स्मरं रतिप्रीतिनितम्बिनीभ्यां सहाभिषेक्तुं भुवनाधिपत्ये । यद्भालदम्भाजलजासनेन मन्ये प्रणिन्यै कलधौतपट्टः ॥ १५१ ॥ रतिप्रीतिनानीभ्यां द्वाभ्यां नितम्बिनीभ्यां गृहिणीभ्याम् । 'रतिप्रीती इव स्मरः' इति प्रतिक्रमणसूत्रवृत्तौ । ततो मदनस्य एका रतिः अपरा च प्रीतिः एते द्वे पत्न्यौ ताभ्यां साध राज्ञामभिषेकसमये राजीनामप्यभिषेको दृश्यते। यथा कृताभिषेका महिषी' इति हैम्याम् । स्मरं कामं भुवनाधिपत्ये त्रैलोक्यराज्ये अभिषेक्तुमभिषेकं विधातुम् अहमेवं मन्ये जानामि । उत्प्रेक्षे वा । जलजासनेन कमलविष्टरेण ब्रह्मणा यस्या देव्या भालस्य ललाटस्य दम्भात्कपटात्कलधौतस्य काश्चनस्य पट्टः पट्टकः प्रणिन्यै विनिर्मित इव ॥
त्रैलोक्यमाक्रम्य पराक्रमेण सुखं निषण्णस्य झषध्वजस्य । व्यधत्त हेमः फलकं विधातावष्टम्भनायेव तदीयमालम् ॥ १५२ ॥ विधाता ब्रह्मा । झषो मीनों ध्वजः केतनं चिरं वा यस्य स मत्स्यलाञ्छनो मदनः मर्थान्मन्मथपृथ्वीपतिस्तस्यावष्टम्भनाय पृष्ठप्रदानार्थम् । उत्प्रेक्ष्यते-तदीयं शासनसु. रीसंबन्धि भालं ललाटं हेम्नः काश्चनस्य फलकं 'पाटिउं' इति प्रसिद्ध व्यधत्त विद. धाति स्म चकार । किंभूतस्य झषध्वजस्य । पराक्रमेण खपुरुषाकारेण निजभुजवीर्येण कृत्वा त्रैलोक्यं तात्स्थ्यात्तद्यपदेशात्सुरलोकपातालभूमीलोकवासिनः सुरासुरनागनांगरनिकरानाक्रम्य पराभूय खाजैकवशंवदीकृत्य सुखं सातेन निषण्णस्योपविष्टस्य आसीनस्य ॥