________________
८ सर्गः]
हीरसौभाग्यम् । हैम्याम् । कथं केन कारणेन भवेताम् । किं च कुण्डले नीलोत्पले च नैषधे दमयन्ती. परिणयनशृङ्गाराधिकारे दृश्यते । यथा-'अवादि भैमी परिधाप्य कुण्डले वयस्य याभ्यामभितः समन्वयः' । तथा-'धृतं च तं सोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविव' । इत्यपि तत्रैव इदं द्वितयमप्यानीतमस्ति । किं चैवं ज्ञायते यत्कर्णकुण्डलमध्ये एव नीलोत्पले भविष्यतः ॥ कर्णयोरुत्पले ॥ .
कटाक्षबाणान्प्रगुणान्प्रणीय स्वःसुभ्रुवो भ्रूः कुटलीभवन्ती । धनुर्लता श्रीसुतधन्विनेव प्रसाधिताभात्रिजगज्जयाय ॥ १४६ ॥
कुटलीभवन्ती वक्रभावं भजन्ती खःसुभ्रुवो देव्या भ्रूरूध्वे रोमपद्धतिरभादमी। उत्प्रे.क्ष्यते-श्रीसुतधन्विना मदनधानुष्केण त्रिजगतत्रिभुवनस्य जयाय पराभवनाय वशी.
करणाय वा प्रसाधिता प्रगुणीकृता धनुर्ल तेव कोदण्डयष्टिरिव । किं कृत्वा । कटाक्षान. क्षिविकूणितानि नेत्रत्रिभागावलोकितानि एव बाणाः शरास्तान् प्रगुणान् सज्जान् प्रणीय विधाय ॥
उज्जम्भवाम्बुजमन्दिराया लीलाप्रवालोऽयमिवेन्दिरायाः । उप्ता तया वा फलिनीव भालाजिरे विरेजे सुरसुध्रुवो भूः ॥ १४७ ॥ सुरसुभ्रवः सुपर्वप्रमदायाः भ्रूविरेजे भाति स्म । उत्प्रेक्ष्यते-उज्जम्भं विकसितं यद्कं देवीवदनं तदेवाम्बुजं जलरुहं कमलं तत्र मन्दिरं सदनं यस्यास्तादृश्या इन्दि. राया लक्ष्म्याः अयं प्रत्यक्षलक्ष्यो लीलायै विलासार्थे प्रवाल: तमालसालपल्लवः इव । वाथ वा तया श्रिया भालाजिरे ललाटप्राङ्गणे उप्ता प्ररोपिता फलिनी प्रियकुलतेव । 'प्रियजुः फलिनी श्यामा' इति हैम्याम् ॥
मिथो मुनीन्द्रेण मृधे मनोभूभूमीपतिर्जर्जरिताशयष्टिः । सुपर्वसुभ्रूभ्रुवमाश्मगर्भयष्टीमिवालम्बकृते ततान ॥ १४८ ॥ मनोभूभूमीपतिश्चेतोभववसुधाधिनाथ: मदननृपः आलम्बकृते खस्यैवावलम्बनार्थमाधारविधानोपयोगार्थम् । उत्प्रेक्ष्यते-सुपर्वसुभ्रवः सुराङ्गनायाः ध्रुवमेवारमगर्भयष्टी मरकतमणिमयदण्डम् । 'भरकतं त्वश्मगर्भः' इति हैम्याम् । ततान कृतवानिव । किभूतः । मिथः परस्परं मृधे संग्रामे मुनीन्द्रेण हीरविजयसूरिणा जर्जरिता प्रहारैर्जर्जरीकृता अङ्गयष्टिः शरीरं यस्य । जर्जरः पुमान् खशरीराधारकृते हस्ते यष्टिं गृहात । किं चापरवर्णनादिराभस्यादन्यकृतामावर्णनीयनायको विस्मृतः स्यादिति तदन्तर्देवीव. र्णनान्तराले मुनीन्द्रपदोपादानम् । यथा नैषधेऽपि कुण्डिनपुरवर्णनाधिकारे- पयसा नैषधशीलशीतलम्' इति तदृत्तावप्येतदेकोकमस्ति ॥
नीलारविन्देन पुरा प्रणीय दृशं त्रिदश्याः सरसीजजन्मा। किंजल्कवृन्दैर्वदने तदीयैः प्रणीतवान्भ्रूलतिकामिवास्याः ॥ ११९॥