________________
काव्यमाला।
आशानुरागातिशयं सृजन्ती प्रचेतसः स्फारमरीचितारा । समुजिहानद्विजराजराजिवक्रा म संध्येव विभाति देवी ॥ ११० ॥
सा श्रीवीरशासनाधिष्ठायिका देवी संध्येव दिनावसानपितृसूरिव विभाति स्म । प्रातःकालीनापि संध्या प्रोच्यते । अतोऽर्थेन दिनावसानस्येत्युक्तम् । 'संध्या तु पितृसूः' इति संध्यानामद्वयं हैम्याम् । देवी संध्या च किं कुर्वती । प्रचेतसः प्रकृष्टमुन्नतेच्छं चेतो मनो यस्य तादृशस्य महतोऽपि आशाया वाञ्छाया अनुरागस्य मोहस्य स्नेहस्य वा अतिश- - यमाधिक्यमुत्कर्ष वा सृजन्ती कुर्वन्ती। महान्तोऽपि यामालोक्य मुह्यन्ति स्निह्यन्ति च । यां स्पृहयन्तीत्यर्थः । पक्षे प्रचेतसो वरुणस्य । 'वरुणस्त्वर्णतमन्दिरं प्रचेताः' इति है.. म्याम् । आशाया दिशः पश्चिमाया अनुगतं क्रमागतं रागस्य रक्तताया अतिशयं प्राः बल्यं संध्यारागं सृजन्ती विदधाना । पुनः किंभूताः । स्फारा उदारा बहुप्रदेशदर्शिन्यो लक्षयोजनविषयत्वान्मरीचयो दीप्तयस्तादृशे तारे कनी निके यस्याः । पक्षे दीप्यमाना झगज्झगिति कुर्वन्त्यः कान्तयो रोचिषो येषां तादृशास्तारा ज्योतींषि यस्यां सा । पुनः किंभूताः । समुजिहान उदयमानः । 'मुखेन्दुनानेन सहोजिहाने' इति नैषधे । 'चन्द्रेण सममुदयन्ती' इति तद्वृत्तिः । द्विजराजश्चन्द्रः द्विजानां रदनानां राजानो द्विजराजा दन्तश्रेष्ठाः । 'कचिदमाद्यन्तस्य परत्वम्' इति दन्तानां राजा राजदन्ता इति दन्तश. ब्दस्य परत्वम् । तै राजन्तें इत्येवंशील: प्रारम्भः । पूर्णिमायां संध्याप्रारम्भ एव च. न्द्रोऽभ्युदेति । अतः प्रारम्भो वदनं च यस्याः सा । राजदन्तशोभितवदना देवी। उदितचन्द्रप्रारम्भा च संध्या ॥ इति दन्ताः ॥
शशी सुधां प्रेक्ष्य निपीयमानां सुरैः सृजंस्तत्र ममत्वमन्तः ।
ररक्ष निक्षिप्य रहो रसज्ञा पात्र्यामिवैतां कृतयन्मुखाङ्गः ॥ १११ ॥ ___ शशी शशधरो विधुः एतां वसुधां रह एकान्तस्थानस्थितायां रसज्ञा देवीरसना सैव पात्री भाजनविशेषस्तस्यां निक्षिप्य स्थापयित्वा । उत्प्रेक्ष्यते-ररक्षेव गोपायति स्मेव रक्षितवानिव । किंभूतः शशी । कृतं स्वेनैव निष्पादितं खात्मनैव विरचितं यस्या देव्या मुखं वदनमेव अङ्गं शरीरं येन । शशी किं कुर्वन् । अन्तश्चित्तमध्ये तत्र खसुधा. विषये ममत्वम् इयं सुधा मया यथाकथंचिद्रक्षणीयैवेति । मम इत्यस्य भावो ममता तो मोहमूच्छी सृजन् कुर्वन् । किं कृत्वा । सुरैः सुधाशनैः निपीयमानां पीत्वापीत्वा निष्ठाप्यमानाम् । यदुक्तम्-'विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापकम्' इति नैषधे । सुराश्चन्द्रमसः सुधां पिबन्ति इति सुधां निजाङ्कस्थायुकपीयूषं प्रेक्ष्य विलोक्य ॥
यस्या रसज्ञां जयिनीं निभाल्य शोणच्छदं तत्तुलनाविलासम् । पितामहं प्रार्थयते खतातारविन्दगेहे निवसन्तमूहे ॥ ११२ ॥ शोणच्छदं रक्तोत्पलपत्रं पितामहं जनकजनकं धातारं च प्रति अहमेवमूहे वितर्क