SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः ] हीरसौभाग्यम् । पाण्डुः क्षयी शून्यनभश्चरिष्णुर्निरङ्गराहोर्द्विषतोऽपि बिंभ्यत् । दोषाकरः श्याममुखो वराकोऽस्माकं पुरस्ताज्जड कस्त्वमेकः ॥ १०८ ॥ हंसतोऽक्षीणसुखा मुखस्था जिताहिताः स्फीतगुणा विशुद्धाः । नैकेऽभिभूताः किमितीन्दुमुद्ययुता त्रिदश्याः प्रहसन्ति दन्ताः ॥ १०९ ॥ त्रिदश्याः शासनामर्त्यायाः दन्ता दशना उद्यन्ती प्रकटीभवन्ती उच्चैर्निर्यान्ती वा कान्तिस्तया कृत्वा । उत्प्रेक्ष्यते - इति हेतो इन्दुं विधुं प्रकर्षेण हसन्तीव शशिनो हास्यं सृजन्तीव । इति किम् । यत् हे इन्दो हे जड मूर्ख जडखरूप जडाशय । 'किमु दधौ जड वा वडवानलात्' इति नैषधे चन्द्रसंबोधनं जड इति । अस्माकं पुरस्ताद्दन्तानाम वराक: तपखी द्रुमको वा त्वं कः । न कश्चिदपीत्यर्थः । वराकतामेवादर्शयतिकिंभूतस्त्वम् । पाण्डुः पाण्डुरोगवान् श्वेतकुष्ट विनष्टवपुः । भूतादिबद्ध बलविग्रहो वा । पुनः किंभूतः । क्षयी राजयक्ष्मा रोगोऽस्यास्तीति । क्षयात्प्रतिदिनं कलानामपगमात् । बहुलपक्षे वपुषः क्षीणता अस्त्यस्मिन्निति वा क्षयी | पुनः किंभूतः । शून्यं निर्मानुषं तथानेनैव सम्यक्तया बभस्तीति भातीति नभः कुत्सितस्थानम् । 'निशानभः सदृशे' इति चम्पूकथायाम् । निशानैस्तेजखिभिवरैिर्बभस्ति शोभते इति निशा निभास्तथा सदृश: इ कामो यस्य तस्य संबोधनम् । पक्षे रात्रिगगनतुल्ये इति तटिप्पन (ण) के । तत्र नगरग्रामाराममानवादिरिक्त के स्थानके चरिष्णुः संचरणशीलः श्मशानादिषु भक्षणशीलो वा । 'चर मतिभक्षणयोः' अस्य धातोः प्रयोगत्वेन जग्धिः स्थितिश्चेति व्यर्थता । पुनः 'किंभूतः । निर्गतमङ्गं शरीरं यस्य । विष्णुना सुदर्शनचक्रे शिरोवशेषीकृतत्वादङ्गराहित्यम् । तादृशाद्राहोः विधुंतुदाद्विषतो वैरिणः सकाशाद्विभ्यद्भयमाकलयत् । पुनः किंभूतः । दोषाणामपगुणानामाकरः खनिः निशाकरश्च । पुनः किंभूतः । श्यामं कलङ्केन कृत्वा कृष्णं - मुखं वक्रं - यस्य । प्रायः कलङ्ककलिताः श्यामानना एव स्युः । पुनः किंभूतः । एको. नास्ति द्वितीयः सदृशः कोऽपि एवंविधस्त्वं क्व । वयं पुनः कीदृशाः । हंसवत् उभयपक्षविशुद्धत्वेन द्योतन्ते इति । पुनः किंभूताः । अक्षीणं न क्षीयते स्मेत्यक्षीणम् अनिष्टीयमानं संपूर्ण वा सर्वाङ्गीणं वा सुखं सातं येषाम् । एतावता रोगराहित्यसातवन्तः । पुनः किंभूताः । मुखे सर्वेषामप्यग्रे वक्रे च तिष्ठन्ति इति मुखस्थाः । एतावता सुस्थानभाजः । पुनः किंभूताः । जिताः स्वकीय परमवैभवैरभिभूताः वज्ररत्नकुन्दतारकादयोऽहिताः प्रतिस्पर्धिनो यैस्ते जिताहिताः । एतावता निर्वैरिताः । पुनः किंभूताः । स्फीता विश्ववि-ख्याता वृद्धि प्राप्ता वा गुणा येषां ते स्फीतगुणाः । एतावता गुणवत्त्वम् । पुनः किंभूताः । विशेषेण शुद्धा निष्कलङ्काः सर्वत्रावदाताः । एतावता सर्वदाप्युच्चैः शिरसः । पुनः किंभूताः । नैके अनेके द्वात्रिंशप्रमाणत्वेन । एतावता वृद्धिभाजः सगोत्रत्वात् । पुनः किं --- भूताः । अभिलक्षणयुक्तं रूपं येषाम् । 'अभिप्सालक्षणयोः' इत्यनेकार्थः । अभिरूपाः पण्डिताः । 'विद्वान्सुधीः कविविचक्षणलब्धवर्णाः ज्ञप्राप्तरूपकृतिकृष्ट्यभिरूपधीराः' - इति हैम्याम् ॥ युग्मम् ॥ ४७ ११९
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy