________________
३५४
काव्यमाला ।
स्तनान्तरीपाङ्कवपुःप्रसर्पज्योतिःस्रवन्तीसलिलप्ररूढा ।
लोमावली शैवलवल्लरीव रराज राजीवविलोचनायाः ॥ ६१ ॥
राजीवे कमळे तत्तुल्ये विलोचने यस्याः कमलचक्षुषो देव्याः लोमावली रोमराजी रराज राजते स्म । उत्प्रेक्ष्यते - शैवलवल्लरीव शैवालमञ्जरीव । 'मुखेन्दुभातस्तनवाकचचच्युता शैवलवल्लरीव' इति कुमारसंभवे । किंभूता । स्तनौ कुचावेवान्तरीपे अन्तर्जले तटे द्वीपो अङ्के उत्सङ्गे मध्ये यस्यास्तादृशे वपुषि कार्य वपुषो देहस्य वा प्रसपति कल्लोलविलासेरितस्ततः प्रसरति ज्योतिः कान्तिरेव स्रवन्ती नदी तस्याः सलिले पानीये जलमध्ये प्ररूढा समुद्रता । प्रादुर्भूतेत्यर्थः ॥
विनिद्रनीलोत्पल केसरश्रीः खःसुभ्रुवो राजति रोमराजी ।
किं तुङ्गवक्षोजकलिन्दशृङ्गिशृङ्गान्तरोदीतकलिन्दकन्या ॥ ६२ ॥
खःसुभ्रुवः सुराङ्गनायाः । ‘खः स्वर्गिवध्वोऽप्सरसः' इति हैम्याम् । रोमराजी रोमलेखा राजति । किंभूता । विनिद्राणि विकसितानि यानि नीलोत्पलानि इन्दीवराणि तेषामिव श्रीः शोभा सौन्दर्ये यस्याः । उत्प्रेक्ष्यते - तुङ्गावत्युच्च यौ वक्षोजी कुचौ तावेव कलिन्दनाम्नः शृङ्गाणि शिखराणि सन्ति अस्यास्मिन्वा स शृङ्गी शैलस्तस्य शृङ्गान्तरे शिखरमध्ये उदीता प्रादुर्भूता कलिन्दकन्या कालिन्दी किं यमुनेव ॥ स्मरद्विपस्यैणमदाभिरामवक्षोजविन्ध्याचलसंनिधाने ।
नाभीह्रदाभ्यर्णविभासिनी यल्लोमावली केलिकृते वनीव ॥ ६३ ॥
यल्लोमावली यस्या रोमराजी स्मरद्विपस्य काम एवातिमदोन्मत्तत्वाद्गजः तस्य केलिङ्कृते क्रीडाकरणार्थं बनी उद्यानमिव । 'खवनी संप्रवदत्पिकापि का' इति नैषधे । क स्थाने । एणमदैः एणानां मृगाणां मदैः क्रीडाविनोदरसैरभिरामः । ' मदो रसो मये इभदानयोर्गेर्वे । वीर्ये कस्तूरिकामुदो:' इत्यनेकार्थतिलकः । तत्त्वतस्तु कस्तूरिकाविलेपनाभिरामो यो वक्षोजः स्तनः । एवं जलबालकशैलस्तस्य संनिधाने समीपे । निकटवर्तिप्रदेशे इत्यर्थः । किंभूता वनी । नाभीरूपो हदो हदस्तस्याभ्यर्णे पार्श्वे विभासते शोभते इत्येवंशीला ॥
निजाक्षिलक्ष्मीहसितैणशावकश्रेण्या व्यभाल्लोमलता त्रिदश्याः ।
मध्यं कृशं वर्धयितुं किमस्या वयः श्रिया नीलमदायि सूत्रम् ॥ ६४ ॥ निजस्यात्मनोऽक्षिलक्ष्म्या नेत्रवैभवेन हसिता अवहेलिता एणानां सारङ्गाणां शावकानां बालकानां श्रेणी धोरणी यया तादृश्याः त्रिदश्याः शासन देवतायाः लोमान्येव रोमाण्येव सरललताकारत्वाल्लतेव व्यभावभासे । उत्प्रेक्ष्यते - अस्या देव्याः कृशं क्षामं परमाणुपरिमाणत्वात् । 'अध्यापयामः परमाणुमध्याः' इति नैषधे । मध्यमुदरं वर्धयितुं किंचि दुपचयगोचरीकर्तुं वयः श्रिया यौवनलक्ष्म्या । वयःशब्देनात्र तारुण्यमेव लक्ष्यते ।