________________
< सर्गः]
हीरसौभाग्यम् ।
शिशुत्वं दिवसकरातले चला लुठन्ती' इति नैषधे। एतावता गङ्गासरखतीयमुनानामनदीभिः मध्ये उदरे तिमणां वलीनां त्वक्संकोचलक्षणानां छलेन कपटेन समेत्य देवीपाचे आगत्य । उत्प्रेक्ष्यते इति वक्तुं कथयितुम् । किम् । एषा देवीप्रसत्तेः प्रसादस्य पात्रं स्थानं क्रियते । याचना सफला तु प्रसादपात्रीकृतादेव प्रभोः स्यादतो देवी प्रसाद्यत इत्यर्थः । इति किम् । मम गङ्गायाः प्रबला सिंहयानत्वेन बलवती चण्डी अत्यन्त. कोपना पार्वती सपत्नी वर्तते । द्वयोरपीश्वरपत्रीत्वेन सापत्न्यम् । तथा मम सरखत्याः पतिायानतिवृद्धः, तथाजः पशुब्रह्मा, तथा वेदजडोऽज्ञानः । 'स्थविरशतानन्दपितामही कस्तथा परमेष्टाजोऽष्टश्रवणः स्वयंभूः' इति हैम्याम् । किमपि न वेत्ति वैदिकः । यतः 'न वेदतां वेदजडः सवत्काम्' इति नैषधे सरखत्या ब्राह्मणस्त्रीत्वम् । तथा एकादशं नाम ब्रह्माणी । इति हेतोर्मम पतिर्भास्ते । तथा भर्ना प्रियेण हरिणा कृष्णेन सार्ध मम यमुनाया वियोगो विरहः । 'जम्मन्तरेण विहडइ उत्तममहिलाणज कियं पिम्मम् । कालिन्दा कन्हविरहे अजवि कालं जलं वहइ ॥ इति वृत्तरत्नाकरवृ. त्तिवोधकवचनात् । विद्यते इदमेतत्पूर्वोक्तलक्षणम् । तिमृणामप्यस्माकमुषितानां पूरणे प्रदाने कल्पवल्लि सुरलते जहि निवारय मूलाच्छिन्धि । इति विज्ञपयितुमिव । दुःखमसातम् ॥
अध्यारुरुक्षोर्हदधित्यकायां वपुPहस्य स्मरमेदिनीन्दोः । सौवर्णसोपानपरम्परेव मध्ये विरेजे त्रिवली त्रिदश्याः ॥ १९ ॥ त्रिदश्याः शासनदेवताया मध्ये उदरे त्रिवली विरेजे। हृत् हृदयमेव अधित्यकायामुपरितनभूमिकां चन्द्रशालिकामध्यारुरुक्षोरध्यारोढुमिच्छोः । यद्वपुः यस्या देव्या वपु. रेवं गृहं मन्दिर यस्य तादृशः स्मरः कामः स एव मेदिन्या भूमेरिन्दुराल्हादकत्वाचन्द्रः । 'कामयेम हि महीमिहिकांशो' इति नैषधे । सौवर्णा सुवर्णसंबन्धिनी काश्चनरचिता सोपानानामारोहणानां परम्परा श्रेणीव ॥
जगत्रयीस्त्रैणजयार्जितायाः श्वैत्येन कीर्तेरनया विजित्य । बन्दीकृता निर्झरिणी सुराणामिव त्रिवेणी त्रिवली चकास्ति ॥ ३० ॥
देव्या इति संबन्धात् । त्रिवली मांससंकोचलक्षणा त्रित्वसंख्याकलिता वली चकास्ति दीप्यते । उत्प्रेक्ष्यते-अनया शासनदेवतया कीर्तेः खकीययशसः श्वैत्येन शुत्रिमश्रिया विजित्य पराभूय बन्दीकृता निगृह्य रक्षिता सुराणां निर्झरिणी नदीव गङ्गेव किं निर्मरिणी त्रिवेणी तिस्रो वेण्यः प्रवाहा यस्याः । 'प्रवाहः पुनरोधः स्याद्वेणीधारा रयश्च सः' इति हैम्याम् । तथा गङ्गायास्त्रिस्रोतस्त्वात् । 'त्रिस्रोता जाह्नवी मन्दाकिनी' इति है. म्याम् । कीर्तेः किंभूतायाः । जगतां वर्गपातालभूमण्डलानां त्रयी त्रिकं तस्याः स्त्रैणस्य स्त्रीसमूहस्य मुरासुरनरनागाङ्नागणस्य जयेन निजवैभवभरेण पराभवेनार्जितायाः स्वीकृतायाः ॥ इति त्रिवली ॥