________________
८ सर्गः] हीरसौभाग्यम् ।
३४७ चासौ सुपर्वसारङ्गमुक् च सुरहरिणीनयना शासनदेवी सैव केलये क्रीडाकृते अर्थान्मनोभवस्यैव यनिकेतनं मन्दिरं तस्य स्तम्भौ स्थूणे इव । अन्यदपि रम्भाह कदलीगृहं 'केलिहरु' इति वा प्रसिद्धम् । तत्राप्याधारस्तम्भौ भवतः । किंलक्षणस्य गृहस्य । अन्तः सौधमध्ये वसन् वासं विदधानः तिष्ठन् । सह अलसदृशा, मन्थरनयनया, स्वगुणेनोपमानेन मनोज्ञादिपदेन च विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । 'अलसेक्षणा मृगाक्षी' इति हैम्याम् । स्त्रिया रत्या वर्तते यः स स्मरः कामो यत्र तस्य ॥
यदूरसृष्टयै करिणां करेभ्यो मन्ये मृदुत्वं गृहयांबभूव । स्वयं स्वयंभूरिति तेषु नो चेदेकान्तकार्कश्यमिदं कुतस्त्यम् ॥ ४० ॥
यदूरुसृष्टयै यस्या देवताया उर्वोः सस्नोः सृष्टयै निर्माणाय खयंभूर्विधाता खयमात्मना नान्यैरत्राहमेवं मन्ये जानामि वितर्कयामि करिणां गजेन्द्राणां करेभ्यो हस्तेभ्यः। शुण्डा. दण्डेभ्य इत्यर्थः । मृदुत्वं सकुमारभावम् । सौकुमार्यकलितदलिकसारमित्यर्थः । गृहयांबभूव गृहीतवान् । 'गृह्णाति गृहयते लाति' इति ग्रहणार्थाः क्रियाः क्रियाकलापे । 'अन्तादाम्' इति गृहयांबभूवेति । एवं चेन तर्हि तेषु हस्तिहस्तेषु इदं प्रत्यक्षलक्ष्यं सर्वजनप्रतीतं वा एकान्तेन अतिमात्रं केवलं वा कार्कश्यं त्वचि काठिन्यं कुतस्त्यं कुतो. भवम् । ततो ज्ञायते सौकुमार्ये गृहीते केवलं कर्कशतैव स्थितवती । 'नागेन्द्रहस्तास्त्वचि कर्कशत्वात्' इति कुमारसंभवेऽपि ॥
दृप्तां यदूरुद्वितयीं प्रतीपामन्विष्य संहर्षकरी करेण । प्रणश्य भीत्याभ्रमुकामुकः किं दम्भोलिपाणिं शरणीचकार ॥ ४१ ॥
अभ्रमुकामुक ऐरावणगजः । 'पयोनिलीनाभ्रमुकामुकावलीरदान्' इति नैषधे । 'ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः' इति हैम्यामपि । भीत्या भयेन कृत्वा प्रणश्य प्रपलाय्य दम्भोलिपाणिं वज्रि पुरंदरं शरणीचकार आश्रितवान् , वज्रपाणित्वेन देव. दानवमानवैरजेय इति तं बभाज। भीतेः कारणमाह-किं कृत्वा। करेण खकीयशुण्डादण्डेन समं संहर्षकरों स्पर्धाकारकाम् अत एव प्रतीपां प्रतिपक्षां तथा पुनईप्तां बलिष्ठां यदूरुद्वितयीं देवीसधियुगलीमन्विष्य व्यालोक्य ॥
तत्केव वार्ता मम राजहंसान्सर्वानसौ यजयति स्वगत्या । इत्यूरुकायं किमु तावदस्याः करं करीन्द्रो व्यतरत्रिदश्याः ॥ ४२ ॥
असौ देवी खगत्या निजगमनेन आत्मीयाभिषेणयेन कृत्वा सर्वान् समस्तानपि राजहंसान् प्रकृष्टबलिष्ठभूपालान् तत्त्वतस्तु खमन्थरगमनविलासेन कृत्वा राजमरालान् यत्कारणाजयति खवशीकरोति पराभवति च, तत्तस्मात्कारणात् मम पशुमात्रस्य पर. वशीभूतस्य च कैव वार्ता मजयेऽस्या न कश्चिदपि प्रयासः । यतोऽहं करो राजदेयां. शोऽस्यास्तीति करदाता चतुष्पदमात्रं तस्मान्मजयमवश्यमेषा कन्येवेति । उत्प्रेक्ष्यतेइति हेतोः करीन्दो गजराजः तावत्प्रथममेवास्यास्त्रिदश्या जघनेन कव्या अग्रभागेन