________________
८ सर्गः ]
हीरसौभाग्यम् ।
सौन्दर्यपाथः प्लवपादपद्माकरेऽङ्गुलीनालजुषोऽनिमिष्याः । कामाङ्कुशाः शोणसरोजराज्यो ज्योतिर्मरन्दोपचिता इवाबभुः ॥ २२ ॥
३४१
अनिमिष्या देवतायाः नखा अनुरागा भान्ति स्म । अयं प्रयोगः क्रियारत्नसमुच्चयेऽप्यस्ति । उत्प्रेक्ष्यते - शोणसरोजराज्यः कोकनदपलय इव । कस्मिन् । सौन्दर्य मनोहरत्वं तदेव पाथसां पानीयानां प्लवः पूरो यस्मिंस्तादृशे पादे चरणरूपे पद्माकरे सरसि । चरणे त्वाकृतिकमलानां सद्भावात्कमलाकरत्वम् । किं शोणसरोजराज्याः । अङ्गुल्यः पादशाखास्ता एव नाला मृणानि जुषन्ते भजन्ते । पुनः किंभूताः । ज्योतींषि नखकान्तय: एव मरन्दा मधूनि तैरुपचिताः पुष्टाः । भृता इत्यर्थः ॥ इति पदनखाः ॥ नखोल्लसत्पल्लवशालमानैर्नग्रामरीनेत्रभिलद्विरेफैः ।
शाखाविंशेषैः पदशाखिनः किं तदङ्गुलीभिर्भियते स्म शोभा ॥ २३ ॥ तदङ्गुलीभिर्देवी पदशाखाभिः शोभा त्रियते ध्रियते स्म । 'डुभृञ् धारणपोषणयोः' इत्यस्य रूपम् । उत्प्रेक्ष्यते - पदशाखिनः पादपादपस्य किं शाखाविशेषैर्विशिष्टशाखाभिरिव । किंभूतैः । नखाः एवोल्लसन्तः स्फुरन्तः विकसन्तो वा पल्लवाः प्रवालास्तैः कृत्वा शालमानैः शोभाभासुरैः । पुनः किंभूतैः । नम्राणां नमनशीलानाममरीणां त्रिदशीनां नेत्राणां नवानां प्रतिबिम्बितान्येव । मध्यमपदलोपी समासः । मिलन्तः समीपे समागच्छन्तो द्विरेफा भृङ्गा येषु ॥
पदं मयेदं प्रददे शिरःसु दिशां दशानामपि सुन्दरीणाम् ।
इतीव रेखाः क्रमयोरमर्साङ्गुलीमिषात्तत्प्रमिता बिभर्ति ॥ २४ ॥
अमर्त्या देवसुन्दरी । 'अलम्भि मर्त्याभिरमुष्य दर्शने' इति नैषधे । यथा मर्त्या तथा अमर्त्या । तथा अमर्त्यापि अङ्गुलीनाम् । अत्राङ्गुष्ठोऽप्यङ्गुलीमध्य एव गण्यते न पृथक् क्रियते । यदुक्तं नैषधेऽपि - ' रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हिङ्गुलपतू । हेमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पश्चशरी स्मरस्य ॥' इति । दशानां मिषा' च्छलात्कमयोर्द्वयोश्चरणयोस्तत्प्रमिता दशदिक्प्रमाणा रेखा बिभर्ति धत्ते । उढोक्ष्यतेइति हेतोरिव । इति किम् । यन्मया खीयाद्वैतरूपश्रिया कृत्वा दशानां पूर्वा, अभिः, दक्षिणा, नैर्ऋती, प्रतीची, वायवी, उत्तरा, ऐशानी, ऊर्ध्वदिक्, अधोदिक् । एकस्मिन् पक्षे | अष्टदिक्षु मानुष्यः ऊर्ध्वलोके देवाङ्गनाः अधोलोके च नागाना असुराङ्गनाश्च । अपरस्मिन् पक्षे । तिर्यग्लोके दशदिक्षु सर्वत्रापि देव्यो वर्तन्ते इति । दशदिग्वर्तिनीनां सुन्दरीणां स्त्रीणां शिरःसु मस्तकेषु रूपसौन्दर्यातिरेकात् इदं पदम् । अयं चरणः प्रददे प्रदत्तम् । पदशब्दः पुंलिङ्गनपुंसकलिङ्गयोः । 'चरणः क्रमणः पादः पदोsनिश्चलनः क्रमः' इति हैम्याम् । तथा— 'पदं किमस्याङ्कितमूर्ध्वरेखया' इति नैषधे ॥ इति पादाङ्गुल्यः ॥