________________
काव्यमाला।
यदाश्रयीभूय किमर्भसूराः राहुं निहन्तुं नखराङ्गभाजः । प्रणम्रगीर्वाणवधूप्रवेणीछायाच्छलाङ्गीकृतचन्द्रहासाः ॥ १९ ॥ दानवारिपरिग्रहपदमेव । अथ वा यो दानवारिपरिप्रहः स एवाश्रयः शरणं येषां तादृशा भूत्वा यत् यो वा आश्रयो येषां ते यदाश्रयाः। न यदाश्रया अयदाश्रया भूत्वा इति यदाश्रयीभूय अर्भसूराः बालारुणाः प्रभातप्रोद्यन्मार्तण्डाः शासनत्रिदशीक्रमका. . माशाः एवाझं वपुलता भजन्ते सेवन्ते तादृशाः सन्तो भवन्तः राहुं खर्भाणुदानवं . निहन्तुं शमनसदनातिथीकर्तुं प्रणम्राणां देवीचलननमनशीलानां गीर्वाणवधूनां सुरागनानां प्रवेणीनां कबरीणां छायाः प्रतिबिम्बानि तासां छायानां छलेन कपटेन अङ्गीकृता . गृहीताश्चन्द्रहासा महाखड्गा इव सन्ति । नखाना रकत्वेनोद्गच्छदादित्योपमानम् ॥ . इदंपदीभूय भवान्तरेऽपि लौहित्यलक्षात्कलितानुरागाम् । . . पद्मद्वयीं प्रेक्ष्य नखाङ्गबालारुणा इवैतन्मिलनार्थमीयुः ॥ २० ॥ पद्मद्वयीं खबन्धुभूतामम्भोजन्मद्वितयीं प्रेक्ष्यालोक्य चक्षुर्लक्ष्यीकृत्य एतस्याः पद्मद्वय्या अर्थाद्वन्धुत्वेन मित्रत्वेन वा मिलनार्थमीयुरागता नखा अर्थाद्देवीचरण. जन्मकामाशा एवाङ्गानि शरीराणि येषां तादृशा बाला नवमुदयं लभमाना अरुणा भास्करा इव । किंभूतां पद्मद्वयीम् । इदंपदीभूय । 'जगत्कर्तृजगत्सर्गप्रणयनपरवशत्वे विधेर्विश्वव्यापारपारवश्यादवतीर्णस्य संसारचक्रे' इति चम्पूकथायाम् । अस्या जिनशासनदेवतायाश्चरणौ भूत्वा पदभावं प्रपद्य भवान्तरेऽन्यस्मिन्नपि भवे जन्मनि अपरावतारे संप्राप्तेऽपि लौहित्यस्य खाभाविकस्फुरद्रक्तताया लक्षात्कपटात्कलितः पूर्ववद्धृतोऽनुरागः स्नेहातिरेकता पाटलिमा च यया ताम् ॥
प्रपेदुषीं यत्पदतां पयोजद्वयीं विभाव्याभकशीतभासः । निजानुरज्यन्मनसं प्रणेतुं नखीबभूवुः किमु तत्रिदश्याः ॥ २१ ॥
अर्भकशीतभासो बालचन्द्राः । तेषां चारुणत्वं कविसमये दृश्यते । यथा-'अ. यमुदयति घुसणारुणतरुणीवदनोपमश्चन्द्रः' इति विदग्धमुखमण्डने, तथा-'स्फुरदम्भःसरोदम्भात्सँहिकेयभयादिव । राकामृगाङ्काः संभूय विभान्ति शरणागताः ॥' इति पाण्डवचरित्रे च चन्द्रबाहुल्यं प्रोक्तमस्तीति । तथात्रापीदं द्वयमपि उद्यतां चन्द्रसूर्याणां बालत्वमेव प्रतिपद्यते । तत्रिदश्याः सा सूरिध्यानाकृष्टागता वासौ त्रिदशी च त्रिदशवशा तस्या नखीबभूवुः तत्पदपुनर्भवभावं भजन्ते स्म । देवतानखा जाता इत्यर्थः । किं कृत्वा । यत्पदतां तत्रिदशचरणभावं प्रपेदुषीं प्राप्तवतीं प्रयोजयोः कमलयोयीं युगली विभाव्य चक्षुषा समीक्ष्य । उत्प्रेक्ष्यते-तां पद्मद्वितयीं निजे खात्मनि विषये अनुरज्यत् सरागीभवत् । 'चकास्ति रज्यच्छविरुज्झिहानः' इति नैषधे । मनः खान्तं यस्यास्तादृशीं प्रणेतुं किमु कर्तुमिव । 'सृजति करोति प्रणयति' इत्यादिकरगार्थाः क्रियाः क्रियाकलापे ॥