________________
काव्यमाला। दिक्पग्रनयनाय मरन्दाथै मकरन्दपानकृते लीना अन्तर्निश्चलीभूता अलयो भ्रमरा यत्र तादृक् स्मितपुण्डरीकं विस्मरश्वेतकमलं किं समर्प्यते स्म विश्राणितं दत्तमिव ॥ पितामहस्य बतिराट्चरित्रैश्चित्रीयमाणस्य विधूतमौलेः ।
कमण्डलुश्चान्द्र इवोत्पलाङ्कः स्रस्तः शयादुल्लसति स्म सोमः ॥ ७३ ॥ ___सोमश्चन्द्र उल्लसति म्म उल्लासं दशदिक्षु ज्योतिःप्रसारमातनुते स्म शोभते स्म वा । कवेरपरवर्णनराभस्येन मा ग्रन्थनायको विस्मृतोऽभूदिति । तमेव स्मारयति इति सर्वत्रापि योजनीयम् । उत्प्रेक्ष्यते-वतिराजः श्रीहीरविजयसूरिपुरंदरस्य चरित्रैः सर्वातिशायिभिरवदातैश्चित्रीयमाणस्य अनन्यसामान्यविस्मयरसं दधानस्य अत एव विस्मयातिरेकाद्विधूतः कम्पितो मौलिमस्तकं येन तादृशस्य पितामहस्य वृद्धस्य विधातुः शयात्पाणिपद्मात्त्रस्त: कथंचित्पतितः अत्याश्चर्यरसवशाच्चित्तवैय त्र्येण पाणिपङ्कजाद्गलितः । तथा उत्पलाङ्कः कुवलयकलितं तथा चान्द्रश्चन्द्रकान्तमणिमयः कमण्डलुरिव कुण्डिकाख्यं जलपानपात्र मिव । 'कुण्डिका तु कमण्डलुः' इति हैम्याम् ॥
पीयूषपूर्णः कलधौतक्लप्तोऽभिषेककुम्भः किमु कौमुदीशः । शृङ्गारयोनि जगदाधिपत्येऽभिषिञ्चता विश्वकृता व्यधायि ॥ ७४ ॥
शृङ्गारयोनि श्रीनन्दनम् । 'मनःशृङ्गारसंकल्पात्मनो योनिः' इति हैम्यां स्मरमामसु । जगदाधिपत्ये सर्वेषां भुवनानां राज्ये नक्तं स्मरस्यैश्वर्यादभिषिश्चता अभिषेकं कुर्वाणेन विश्वकृता जगत्सृष्टिकारकेण विधिना । उत्प्रेक्ष्यते-कौमुदीशः चन्द्रिकापतिः शीतकान्तिरूपः पीयूषणामृतरसेन पूर्णो भरितः । तथा कलधौतै रजतैः क्लृप्तो विनि. मितो घटितः अभिषेककुम्भः अभिषेककरणकृते कलशः किमु व्यधायि विनिर्मित इव ॥
क्षयात्सुधायाश्चिरकालपानात्तां याचमानाननुगृह्य देवान् । सुधारुचिर्विश्वसृजा सुधाया अक्षीणकुम्भः किमु कल्प्यते स्म ॥७९॥ विश्वसजा त्रिभुवनसर्वसृष्टिविधायिना वेधसा सुधारुचिश्चन्द्रः । उत्प्रेक्ष्यतेसुधाया अमृतरसस्य न कदाचिदपि क्षीयत इत्यक्षीण: अक्षयकुम्भश्चन्द्रकान्तमणिमयः कलशः किमु कल्प्यते स्म विनिर्मितो घटित इव । किं कृत्वा । चिरकालं बहुसमयं यावत्पानाद्वीतेः 'सुधायाः पूर्वपीयूषस्य क्षयानाशात् तां पुनः सुधां याचमानानभ्यर्थयमानान्मार्गयतो देवाननुगृय सर्वेषां सुराणामुपरि पीयूषपायित्वेन अनुग्रहं कृत्वा ॥
प्राग्दिङ्मगाझ्या प्रणयेन पत्यौ समीयुषि स्वावसथं सुरेन्द्रे । उद्बोधितो भेत्तुमिवान्धकारं निशीथिनीनायकदीप्रदीपः ॥ ७६ ॥ प्राग्दिङ्मृगाक्ष्या पूर्वहरिनामहरिणनयनया रात्रित्वादन्धकारं भेत्तुं निराकर्तुम् । उत्प्रेक्ष्यते-निशीथिनीनायकः शर्वरीवरयिता चन्द्र एव दीप्रो दीपनशील: प्रसरज्ज्योतिर्जालजटिलो दीपो मन्दिरमणिरुद्बोधितः प्रकटीकृत इव । कस्मिन्सति । प्रणयेन