________________
७ सर्गः] हीरसौभाग्यम् । सान्द्रद्रुमोल्लासिनि पूर्वशैलशृङ्गाङ्गणे चञ्चति चन्द्रलेखा । किंचिनिरीक्ष्या हरिदिमृगाक्ष्याश्चूडामणिः किं चिकुरान्तरस्था॥१९॥ सान्दविनिद्रद्दल(निबिडदल)मण्डलकलितान्तरालसच्छायपादपपटलोल्लसनशीले पूर्वशैलस्य उदयाचलस्य शृङ्गागणे शिखराजिरे उपरितनभूविभागे किंचिनिरीक्ष्या खल्पतरचक्षुर्लक्ष्या चन्द्रलेखा शशिकला चश्चति संशोभते । 'चञ्चति चकास्ति लसत्यपि शोभते' इति क्रियाकलापे । उत्प्रेक्ष्यते-हरेः पुरंदरस्य दिक् पूर्वाशा सैव मृगाक्षी हरिणेक्षणा वधूत त्याः चिकुराः केशपाशास्तेषामन्तरे मध्ये तिष्टतीति चिकुरान्तरस्था निबिडघन. केशकलापत्वेन किंचिन्मनाक् निरीक्ष्या दृग्गोचरा चूडामणिः किमु शिरोरत्नमिव । मणि. शब्दः पुंस्त्रीलिङ्गयोरपि । यथा 'प्रश्निस्तिथ्यशनीमणि: मृणिः' इति लिझनुशासने। तथा हखो दीर्घोऽपि । अथ वा चूडामणिमस्तकाभरणविशेषः । सौराष्ट्रगुर्जरेषु तु 'वाक' इति लोकोतया तत्र पुंलिङ्ग एवावधार्यते ॥
दत्त्वाधिपत्यं निखिलाचलानां स्वदिग्गिरेः स्वर्गिरिचक्रिणेव । मौलिस्थले राजतपट्टबन्धो विनिर्मितः स्फूर्जति सामिसोमः ॥ ७० ॥ सामिसोमः अर्धविधुः स्फूर्जति स्फूर्तिमियति । दीप्यते इत्यर्थः । 'पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि' इति नैषधे। 'सामिघटिता अर्धनिष्पादिता' इति तद्वत्तिः । उत्प्रेक्ष्यते-खगिरेचकिमा कामनावलचक्रवर्तिना शक्रेण । 'जाम्बूनदोवीधरसार्वभौम' इति नैषधे इन्द्राभिधानम् । खदिग्गिरेरात्मीयाशाशैलस्य उदयाभिधानस्य भूधरस्य निखिलाचलानां सकलभूमण्डलवतिपर्वतानामाधिपत्यमैश्वर्य राज्यं दत्त्वा मौलिस्थले शिरोमण्डले राजतो राजतस्यायं रूप्यसंबन्धी पट्टबन्धो विनिर्मितः कृत इव बद्ध इव ॥
सुरेन्द्रदिग्भूधरमूर्ध्नि बिम्बमपूर्णमाभासत शीतभासः । खण्डं शिखायामिव सैहिकेयदंष्ट्रान्तरायन्त्रणतोऽजनिष्ट ॥ ७१ ॥ सुरेन्द्रस्य निर्जरनायकस्य दिक् पूर्वाशा तस्या भूधर उदयपर्वतः तस्य मूर्ध्नि मस्तके शिखरे शीतभासश्चन्द्रस्य अपूर्ण किंचित्यूनं किमपूर्णनिर्गमनात्खण्डं विम्बमण्डलमामासत राजते स्म । उत्प्रेक्ष्यते-सैहिकेयस्य सिंहिकासुतस्य खर्भानोर्द्रष्ट्राणां दाढानामन्तरा मध्ये यन्त्रणतः पीडनतः निर्गमनतः शिखायामग्रभागे खण्डं शकलमिवाजनिष्ट संजातमिव ॥ संपूर्णपीयूषमयूखबिम्बं बभौ ततः स्वीयदिगङ्गनायै ।।
मरन्दलीनालिपुरंदरेण समर्प्यते स्म स्मितपुण्डरीकम् ॥ ७२ ॥ __ततोऽनन्तरं संपूर्णमखण्डं पीयूषमयूखस्य चन्द्रस्य विम्बं मण्डलं बभौ भासते स्म! उत्प्रेक्ष्यते-पुरंदरेण इन्द्रेण खीयायै आत्मीयाय दिगगनायै हरित्कान्तायै निजपूर्व