________________
३१२
काव्यमाला।
शकुन्ताः पक्षिणः सायं संध्यासमयमनुलक्ष्यीकृत्य आवासनमावासस्तदर्थम् । निशायां निवस्तुमित्यर्थः । आवासार्हा वा विकसिता ये महीरुहा पादपास्तेषाम् । 'आवासवृक्षो. न्मुखबर्हिणानि' इति रघुवंशे। तथा ‘फलबर्हाभ्यामिनच्' । 'फलिनः, बर्हिणः' इति प्रक्रियाकौमुद्याम् । शिखाः शाखा: शिश्रियिरे भजन्ते स्म । उत्प्रेक्ष्यते-विश्वोपकर्ता जगजनानां प्रबोधालोककारकत्वेनोपकारकारकः तथा सगोत्रो नोऽस्माकमाकाशचरत्वेन सदृशं गोत्रं नाम यस्य स सगोत्रः । 'गोत्रसंज्ञानामधेयाख्याह्वा' इति हैम्याम् । खगो भानुमाली । 'सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगः' इति सूर्याभिधानानि हैम्याम् । क कुत्रस्थाने गतः यातवान् । तस्य खगस्य ईक्षार्थमालो. कनार्थमिवोच्चैः उपरितनशिखासु अस्थुः स्थिताः ॥
मरन्दनिस्पन्दितमालतालीः सायं स्म शीलन्ति कलापिमालाः ।
प्रावृद्पयोदस्य धियेव मैत्र्यादुपेयुषोऽभ्रान्मिलितुं क्षमायाम् ॥२६॥ कलापिमाला मयूरमण्डली सायं संध्यासमये मरन्दानां विकसितकुसुममकरन्दानां नितरामतिशायितया स्पन्दः क्षरणमस्त्यासु तादृश्यस्तमालास्तापिच्छास्तालीवृक्षविशेषाः शीलन्ति श्रयन्ते । उत्प्रेक्ष्यते-अभ्रादाकाशान्मैत्र्यात्सौहार्दान्मिलितुमर्थादात्मनोमिलनाथै क्षमायो भूमण्डले उपयुषः समागतस्य प्रावृट्पयोदस्य वार्षिकसेघस्य धिया बुद्ध्या । भ्रमादिवेत्यर्थः ॥
विकालवेलामनु. सूत्रकण्ठा अनीनदन्नीडसनीडभाजः ।
दृष्ट्वा जगच्चक्षुरनिष्टमेते पठन्ति किं शान्तिकमन्त्रपाठान् ॥ २७ ॥ विकालवेला दिवसावसानसमयमनुलक्ष्यीकृत्य । व्यालोक्येत्यर्थः । 'दिनावसानमुत्सूरो विकालसबली अपि' इति हैम्याम् । सूत्रकण्ठाः शुकाः अनीनदन् अतिशयेन शब्दायन्ते स्म। किंभूताः । नीडानां कुलायानां सनीडं समीपं भजन्तीति । उत्प्रेक्ष्यते-जगतो विश्वेषां प्राणिनां सर्वमार्गाणां स्वेषां परेषां वा सर्वपदार्थानां दर्शकत्वाच्चक्षुरिव लोचनमिव तस्य जगच्चक्षुषो भानोरनिष्टमस्तलक्षणामापदं दृष्ट्वा एते द्विजाः किं शान्तिकान् शान्तिकारकान्मत्रपाठान्मन्त्रोच्चारान्पठन्त्युच्चरन्तीव । ब्राह्मणा हि विपत्तौ विघ्ने वा शान्तिकं कुर्वाणाः शान्तिकमन्त्रपाठानुच्चरन्तीति लोकरूढिः । 'सूत्रकण्ठः शुके विप्रे खअरीटक-' पोतयोः' इत्यनेकार्थतिलकः ॥
वियन्मणीवल्लभविप्रयुक्तां पाथोजिनीं मुद्रितवनकोशाम् ।
रसार्पणप्रीतहृदस्तदानीमालापयन्तीव रवैद्विरेफाः ॥ २८ ॥ तदानीं संध्यायां सूर्येऽस्तमिते द्विरेफाः मधुकरा रवैः खगुञ्जारवैः शब्दैः कृत्वा पाथोजिनी पद्मिनीम्। उत्प्रेक्ष्यते-आलापयन्तीव शोकापनोदं मनाक् प्रणेतुं वादन्तीव । किंभूता द्विरेफाः । रसानां निजोज्जम्भमाणपाथोजनिर्यन्मकरन्दानामर्पणेन पूर्वप्रदानेनाकण्ठपानोपकारकरणेन प्रीतमतीव हृष्टं हृद् मनो येषाम् । किंभूनां पद्मिनीम् । विय