________________
हीरसौभाग्यम् ।
२६५ उपवीतमुरःस्थलान्तरे कलयंश्चन्दनचन्द्रचर्चितः ।
दमनो मदनम्य भूतिमानिव वैकक्षितकुण्डलीश्वरः ॥ १३ ॥ पुनः किं कुर्वन् । उरःस्थले वक्षोमध्ये उपवीतं यज्ञसूत्रं कलयन् दधत् । किंभूतः । चन्दनं मलयतरुद्रवरूथा चन्द्रः कपूरस्ताभ्यां कृत्वा चर्चितः कृताङ्गरागः । उत्प्रेक्ष्यतेवैकक्षः उत्तरासङ्गः संजातोऽस्य प्रावारीकृतो वा कुण्डलीश्वरः शेषनागाधिपो यस्य येन वा । 'शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः । स च श्यामोऽथ वा शुक्लः सितपङ्कजलाञ्छनः ॥' इति हैम्याम् । तथा भूतिमान् भस्मोद्धलनः । मदनस्य कामस्य दमनो वैरी शंभुरिव ॥
शिववाङ्मयवाधिपारगोऽनिशषट्कर्मरतो व्रतान्वितः ।
वपुरभ्युपगत्य वर्णिनामिव धर्मः प्रकटीभवन्नयम् ॥ १४ ॥ अथ वा वपुः शरीरमभ्युपगत्याङ्गीकृत्य प्रकटीभवन्नक्षिलक्ष्यः संपद्यमानः वर्णिनां ब्राह्मणानामयं प्रत्यक्षो धर्म इव । किंभूतो द्विजः । शिववाङ्मयं नैयायिकशास्त्रं तदेव वाधिः समुद्रः तस्य पारगः पारगामी । पुन: किंभूतः । अनिशं षट्सु अध्ययनाध्यापनयजनयाजनदानप्रतिग्रहलक्षणेषु कर्मसु ब्राह्मणोचितेषु कार्येषु रत आसक्तः । पुनः किं. भूतः । व्राह्मणानां शैवशासनस्य वा उचितैर्योग्यैर्नियमैरन्वितः कलितः । अत एव तद्धर्मोत्प्रेक्षा ॥ इत्यादिचतुर्भिः कलापकेन पण्डितद्विजवर्णनम् ॥ .. “स पपाठ सधर्मसागरोऽखिलनैयायिकवाङ्मयं ततः।
समयं सुगतस्य सौगतादिव हंसः परमादिहंसयुक् ॥ ५५ ॥ स हीरहर्षगणिस्ततो ब्राह्मणादखिलं समग्रं नैयायिकानां वाड्मयं शास्त्रं पपाठ पठति स्म । स किंभूतः । सह धर्मसागरेण वर्तते यः । क इव । हंस इव । यथा हरिभद्रसू- रिभागिनेगको हंसः सुगतस्य बौद्धस्य समयं शास्त्रम् । 'आप्तोक्तिः समयागमौ' इति है.
म्याम् । 'समयः शपथे भाषासंपदोः कालसंविदौ । सिद्धान्ताचारसंकेतनियमावसरेषु च ॥ क्रियाकारे निर्देशे च' इत्यनेकार्थः । सौगताद्वौद्धाचार्यात्पठति स्म । किंभूतो हंसः । परम इति पदमादौ यस्य तादृशेन हंसेन युनक्ति सङ्गं प्राप्नोति एतावता परमहंसकलितः ॥
कलयन्प्रतिभामनुत्तरामतितीक्ष्णां स कुशः शिखामिव । प्रथमं प्रविधाय तर्कयुक्परिभाषामुखशास्त्रसंग्रहम् ॥ १६ ॥
द्रविणार्पणहृष्टमानसादथ चिन्तामणिमग्रहीद्विजान् । - परिशीलनकर्मतोषितादिव चिन्तामणिमादितेयतः ॥ ५७ ॥
अथ पठनप्रारम्भानन्तरं स हीरहर्षगणिविणानां द्रव्याणामर्पणाद्दानात्प्रीतं हृष्टं मानसं मनो यस्य तादृशाद्धिजात्पण्डितब्राह्मणाच्चिन्तामणि नामशैवशास्त्रमहोत् । कुत इव ।आदितेयत इव यथा कश्चिद्भाग्यवान् पुरुषः परिशीलनकर्मणा सेवाविधिना तोषितात्प्रसन्नीकृ.