________________
२६४
काव्यमाला। कया। अखिलं समस्तं यत्तर्कशास्त्रं तस्याधिजिगांसया पिपठिषया। 'इङश्व' । 'इङ्अध्ययने' इत्यस्य धातोर्गमिरादेशः स्यात्सनि परे । 'अविजिगांसते' इति प्रक्रियाकौमुद्याम् । केनेव । पटलेनेव । यथा पयोमुचा मेघानां पटलेन वृन्देन सलिलानां जलानामादानं ग्रहणं तस्य समीहया वाञ्छया अम्वुधौ समुद्रे गम्यते । 'अव्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः' इति खण्डप्रशस्ती । अत्र यथा इवार्थे ॥
पठता सह धर्मसागरव्रतिना देवगिरौ गुरुर्व्यभात् ।
सहकार इव प्रफुल्लता नवराजादनशाखिना वने ॥ ४९ ॥ ___ सह पठता सार्धमधीयानेन धर्मसागरनाम्ना वतिना मुनिना गुरुर्भाविनिभूतोपचारात् हीरहर्षगुरुर्व्यभात् वभासे। क इव । सहकार इव । यथा प्रफुल्लता विकसता नवः प्रत्यप्रः राजादनः प्रियाल एव शाखी द्रुमः तेन वने सहकारो माकन्दो भाति ॥
पुरसंघजनैः प्रणोदितैरमुनाधीतिकृते कृतीन्दुना ।
प्रतिबिम्बमिव घुसद्गुरोर्द्विज आनायि ततः कुतश्चन ॥ ५० ॥ ततस्तदनन्तरं कृतीन्दुना कोविदचन्द्रेण अमुना हीरहर्षगणिना अधीतिकृते स्वाध्य. यनकार्याय प्रणोदितैः प्रेरितैः पुरस्य देवगिरिनगरस्य संघजनैः श्राद्धवगैः । यद्यपि सा. धुसाध्वीश्रावकश्राविकारूपचतुर्विधः संघः प्रोच्यते तथाप्यत्राधिकारात्संप्रदायाद्वा श्राद्धवर्ग एव संघः कुतश्चन कस्मादपि स्थानात् द्विजो ब्राह्मण आनायि आकारितः। उ. स्प्रेक्ष्यते-द्युसद्गुरोबृहस्पतेः प्रतिबिम्वमिवापररूपमिव ॥ ___तदुपान्तभुवं व्यभूषयत्स ततो गौरगरुगतिर्द्विजः ।'
अवतीर्ण इवारविन्दभूः स्वकसर्गस्य दिदृक्षया क्षितौ ॥ ११ ॥ तत आकारितानन्तरं-स द्विजः पण्डितब्राह्मण: तस्य हीरहर्षगणेरुपान्तभुवं समीपक्षोणी व्यभूषयदलंचकार प्रभोः पार्श्वे समायातः । किंभूतो द्विजः । गौरगरुत्सितच्छदो हंसस्तद्वन्मन्थरा गतिर्यस्य । उत्प्रेक्ष्यते-खकस्यात्मना कृतस्य सर्गस्य भूलोकसृष्टेः दि. दृक्षया द्रष्टुमिच्छया क्षितौ पृथिव्यामवतीर्णवानायातः अरविन्दभूर्ब्रह्मेव ॥ द्विजं विशिनिष्टि
मृडमूर्धनिवाससौहृदान्मिलितुं जगुसुतामिवागताम् । __ अलिकाविळू ललाटिकां वहमानो हरिचन्दनोद्भवाम् ॥ १२ ॥ किं कुर्वाणो द्विजः । हरिचन्दनोद्भवांश्रीखण्डनिर्मितां ललाटिकां ललाटालंकारम् । तिल. कमित्यर्थः । 'ललाटिकासीमनि चूर्णकुन्तला' इति नैषधे । लोके आडि' इति प्रसिद्धा। वहमानो बिभ्राणः । उत्प्रेक्ष्यते-मृडस्येश्वरस्य मूर्धनि मस्तके निवास एकत्र स्थितिनिवसनं तेन यत्सौहृदं मैत्री तस्मादलिकार्धविधुं भालरूपार्धचन्द्रम् । 'लब्धार्धचन्द्र ईशः' इति चम्पूकथायाम् । मिलितुमागतां जहुसुतां गङ्गामिव ॥