________________
५ सर्गः] हीरसौभाग्यम् ।
२१७ खं क्षणात्क्षयमवेक्ष्य सृजद्भिः पारलौकिकसुखाय तपांसि ।
धूमपानमिव धूपजधूमव्याजतस्तदलकेः क्रियते स्म ॥ १०३ ॥ तदलकैः कुमारस्य केशैः । उत्प्रेक्ष्यते-धूपात् केशधूपनायो जातो धूमस्तस्य व्याजात्कपटेन धूमपानमिव क्रियते विधीयते । किं कुर्वद्भिः । परलोके भवत्पारलौकिकं तच्च तन्मुखं च तस्मै तदर्थ कष्टानि तपांसि मुजद्भिः कुर्वद्भिः । किं कृत्वा । क्षणात्खपकालात्स्वमात्मीयं क्षयं विनाशं लोचलक्षणमवेक्ष्य ज्ञात्वा ॥
मानिनीजनमनोनयनस्वं यैरनीयत हृतेविषयत्वम् ।
पारिपन्थिकभरैरिव लेभे बन्धनं किमिति तच्चिकुरैस्तैः ॥ १०४ ॥ तैस्तस्य कुमारस्य चिकुरैः केशैः । [उत्प्रेक्ष्यते-] इति पश्यतोहरत्वाद्धेतोर्बन्धनं नियत्रणं लेभे प्राप्तम् । कैरिव । पारिपन्थिकभरैरिव । यथा तस्करगणैवौरिकाकरणाद्वन्धनं प्राप्यते । तैः कैः । यश्चिकुरैमानिनीजनानां नागरिककामिनीलोकानां मनांसि हृदयानि तथा नयनानि विलोचनानि तान्येव खं विभवो हृतेरपहरणस्य विषयत्वं गोचरताम् । 'मन्ये न मे श्रवणगोचरतां गतोऽसि' इति कल्याणमन्दिरस्तवने । अनीयत लम्भितं प्रापितम् । अपहृतमित्यर्थः ॥
सूनसंगतशिलीमुखलेखासूनसायकधनुःशरराशेः । संश्रयञ्छ्यिमिवार्भकमल्लीकुङ्मलाकलितकुन्तलहस्तः ॥ १० ॥ अर्भकस्य हीरकुमारस्य मल्ल्या मल्लिकायाः कुड्मला: कोरकाः । 'मल्लीभिः प्रतिमल्लीभावं दधती विभाति भावत्की' इति राजवर्णने । तैराकलितो युक्तो यः कुन्तलहस्त: केशपाशः सूनेषु कुसुमेषु संगता मकरन्दपानार्थमागता ये शिलीमुखा भ्रमरास्तेषां लेखा श्रेणि: सैव सूनसायकस्य धनूंषि कार्मुकाणि शरा बाणास्तेषां राशेः समूहस्य श्रियं शोभा श्रयनिवास्तीत्युत्प्रेक्षा ॥
मूर्ध्नि तस्य मुकुटेन दिदीषेऽनर्घ्यरत्नपटलीललितेन ।
बर्हचामरजयं चिकुराणां विभ्रमैरिव विधाय धृतेन ॥ १०६ ॥ - तस्य कुमारस्य मूर्ध्नि मस्तके मुकुटेन किरीटेन दिदीपे रेजे। किंभूतेन । अनानां बहुमूत्यानां रत्नानां विविधमणीनां पटली श्रेणी तया ललितेन मनोज्ञेन । उत्प्रेक्ष्यते-चिकुराणामर्थात्कुमारकेशानां विभ्रमैः शोभाभिः । 'आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः' इति हैम्याम् । विलासर्वा । बाँणि मयूरपिच्छानि । 'अस्य वाकेका पिच्छबहशिखण्ड कम्' इति हैम्याम् । तथा चामराणि बालव्यजनानि तेषां जयं पराभवं विधाय कृत्वा धृतेनेव कलितेनेव ॥
पट्टिकार्भकविभोः कनकस्यालीकमण्डलमलंकुरुते स्म । विभ्रमेण चिहुराम्बुधराणां हादिनीव निकटे विलुठन्ती ॥१०॥
२८