________________
काव्यमाला।
तत्कलाकुशलमानववर्गस्तं प्रसाधयितुमारभते स्म ।
खस्तरूनिव निपातयितुं श्रीगर्वपर्वतशिखामधिरूढान् ॥ ९९ ॥ तस्य प्रसाधनस्य मण्डनस्य कलायां विज्ञाने कुशलश्चतुरः । 'तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः । निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥' 'विभूषणा प्रसाधना कृता' इति नैषधे, तद्वृत्तौ च । इति पुरुषस्यापि प्र. साधना दृश्यते । मानवाना मनुष्याणां वर्गः समुदायः तं कुमारं प्रसाधयितुं मण्डयितु. मंशुकाभरणादि परिधापयितुमारभते स्म उपनामति स्म । उत्प्रेक्ष्यते-श्रीणां विशिटशोभानां यो गर्वोऽहंकारः स एव पर्वतो गिरिस्तस्य शिखाम्। उपरितनभूमीशिखरमित्यर्थः । तामधिरूढानध्याश्रितान् स्वस्तरून् कल्पवृक्षान् निपातयितुमधःक्षेप्तुं जेतुमिव ॥
सान्द्रचन्द्रनिकुरम्बकरम्बीभूतनूत(न)घुसृणद्रवचर्चा ।
तत्तनौ विलसति स्म सुमेरौ चन्द्रिकाखचितसांध्यरुचीव ॥ १०॥ सान्द्राः स्निग्धा बहला वा ये चन्द्राः कर्पूरास्तेषां निकुरम्बः समूहस्तेन करम्बीभूतो मिश्रो जातो यो नूतो(नो) नवीनो घुसणानां कुडमानां द्रवो बहलपङ्कः तस्य चर्चा विले. पनम् । 'चन्द्रो विधौ च कर्पूरे वर्णे च' इत्यनेकार्थः । तस्य कुमारस्य तनौ काये वि. लसति स्म शुशुभे । केव । चन्द्रिकाखचितसांध्यरुचीव। यथा सुमेरौ सुराचले चन्द्रज्योत्स्नया मिश्रिता संध्यासमयसंवन्धिनी कान्तिः । [सांध्यराग इत्यर्थः ।] शोभते। 'रुच्यो रुचीभिर्जितकाश्चनाभिः' इति नैषधे रुचीशब्दो दीर्घोऽप्यस्ति ॥
सौरभं सुमनसां समुदायोऽध्यापयेद्यदि महारजतस्यं । ,
अङ्गरागललितार्भकमूर्तेस्तल्लभेत तुलनां कलयापि ॥ १०१॥ सुमनसां कुसुमानां समुदायः सर्वजातिजातपुष्पप्रकरः यदि महारजतस्य सुवर्णस्य सौरभं सुगन्धितां स्वपरिमलमध्यापयेत् पाठयेत् शिक्षयेत् । दद्यादित्यर्थः । विद्याप्रदान हि अध्यापननिजामोद दत्ते । तत्सदा अङ्गरागेण श्रीखण्डविलेपनेन ललिताया मनोज्ञाया अर्भकस्य हीरकुमारस्य मृर्तेः शरीरस्य कलया अंशेनापि तुलनां सदृशीभावं लभेत प्रा. प्रयात् । महारजतमित्यर्थः ।।
विश्वजैत्रमिव मोहमहीन्द्रं हन्तुमर्भधरणीरमणेन ।
खड्गरत्नमिव केशकलापो धूपधूमपटलीभिरधूपि ॥ १०२॥ अर्हो हीरकुमारः स एव धरणीरमणो राजा तेन केशकलापः केशपाशः धूपस्य कृष्णागुरुकुन्दरुष्कतुरुष्कप्रमुखसुगन्धवस्तुनः धूमपटलीभिधूमश्रेणीभिरधूपि धूपितः सुगन्धीकृतः । वासित इत्यर्थः । उत्प्रेक्ष्यते-विश्वेषां सुरासुरोरगनराणां जैत्रं जयनशीलं मोहनामानं महीन्द्र राजानं हन्तुं व्यापादयितुमिव खड्गरत्नं धूपितम् । राज्ञापि वैरिणं व्यापादयितुं खखड्गरत्नं धूप्यते इति रीतिः ॥