________________
२०६
काव्यमाला। क्रीडितुं रतिपतेरिव गेहाः प्रावृषेण्यदिवसाः कथमेते ।
गीतनृत्ययुवतीजनलीलामुख्यसौख्यविमुखेन विषह्याः ॥ ६३ ॥ हे भ्रातः, एते व्रजनप्रसिद्धा जगजीविका हेतवः प्रायेण हि विजयदशमी यावजनाः घनं समीहन्ते तेन शरदपि वर्षान्तरे वोच्यते । प्रावृषेण्या वर्षासमयसंबन्धिनो दिवसा दिनानि कथं कया रीत्या त्वया विषह्याः सहनीयाः । किंभूतेन लया । गीतं गानम्, नृत्यं नाटकम् , युवतीजनस्तरुणीभिः सार्ध लीला विलास: दोलान्दोलनप्रमुखाः क्रीडाः,ता मुख्याः प्रकृष्टा मुखे आदी भवा मुख्या आद्या यत्र तादृक् यत्सौख्यं सांसारिकसुसं तस्माद्विमुखेन पराङ्मुखेन । तत्त्यक्तुकामत्वात् । प्रावृषेण्यदिवसा उत्प्रेक्ष्यन्ते-रतिपतेः कामस्य क्रीडितुं विलसितुं गेहा मन्दिराणीव ॥ इति वर्षाऋतुकाव्यम् ॥
जम्भमाणजलजद्वितयीवाशिद्वयी प्रदधती प्रदिमानम् ।
क्षोणिचक्रमणदुःखमियं ते मर्षयिष्यति कथं कथयैतत् ॥ ६४ ॥ हे सहोदर, त्वमेतन्मया प्रोच्यमानं कथय निवेदय । इयं शङ्खचक्राङ्कुशातपवारणां. दिलक्षणैर्लक्षिता अद्वियी चरणयुगली क्षोणिचक्रमणस्य कठिनभूमीपीठे पर्यटनस्य पर्यटनेन वा दुःखमसातं कथं मर्षयिष्यति सहिष्यते । किं कुर्वती । म्रदिमानं सौकुमार्य प्रदधती प्रकर्षणातिशयेन बिभ्राणा । केव । जृम्भमाणजलजद्वितयीव । यथा स्मेरत्कमलयामलं म्रदिमानं धत्ते ॥
वक्रवारिजधिया समुपेतां षट्पदावलिमिवालकमालाम् ।
लुश्चयिष्यसि कथं मुखलक्ष्मीन्युञ्छितामृतमयूख सगर्भ ॥ ६ ॥ हे मुखलक्ष्म्या वदनशोभाया उपरि न्युञ्छितो न्युञ्छनीकृत्य क्षिप्तोऽमृतमयूखश्चन्द्रो यस्य [अर्थाद्विधिना] स तस्य संबोधनं हे मुखलक्ष्मीन्युञ्छितामृतमयूख, समानो गर्भो यस्य । 'सहादेः' इति समानस्य स आदेशः । हे सगर्भ एकमातृगर्भोत्पन्नभ्रातः, त्वमलकमालां चिकुरच्छटां केशपाशं कथं लुञ्चयिष्यसि उत्पाटयिष्यसि । उत्प्रेक्ष्यतेवक्रे वदने वारिजस्य पद्मस्य धिया बुद्ध्या भ्रमेण समुपेतां समागतां षट्पदावली भृङ्गमालिकामिव ॥
राशिना सुमनसामिव सर्पिस्तर्पितोद्धतधनंजयकीलाः ।
तत्परीषहततिः किमसह्या विग्रहेण मृदुना तव सह्या ॥ ६६ ॥ हे भ्रातः, तव भवतो मृदुना सुकुमारेण विग्रहेण शरीरेण असह्या कातरचित्तेन सोढुमशक्या । तादृशी चासौ कातरीकृतानेकजना द्वाविंशतिमाना प्रसिद्धा जिनशासने विख्याता परीषहाणाम् क्षुधा-पिपासा-शीत-उष्ण-दंश-मशक-अचेल-अरति-स्त्री-चर्यानिषद्या-शय्या-आक्रोश-वध-याचना-अलाभ-रोग-नृण-स्पर्शन-सत्कार-मेल प्रज्ञा-अज्ञान-स. म्यक्त्वनाम्नां] ततिः श्रेणी कथं केन प्रकारेण सह्या मर्षणीया सोढव्या । केनेव । राशि