________________
१. सर्गः ]
हीरसौभाग्यम् ।
२०५
उत्प्रेक्ष्यते - हृदि हृदये वक्षसि मौक्तिकस्रजं मुक्ताफलमालिकामिव तन्वती कुर्वती विस्तारयन्तीव ॥
वत्स वत्सलतया तव किंचिद्वच्मि कर्णपथिकीकुरु तत्त्वम् ।
यद्रसायनमिव खजनानामस्ति वाग्विरचना हितगर्भा ॥ ६० ॥
हे वत्स लघुभ्रात:, तव भवतः वत्सलतया हितकृत्त्वेन यत्किंचिद्भविनामायतिहितविधायक विचाय वच्मि कथयामि, तत्त्वं तवाप्यायतिसुखदं मदुक्तं कर्णपथिकीकुरु श्रवणप्राघुणं प्रणय । ण्वित्यर्थः । यद्यस्मात्कारणात्स्वजनानां बन्धुवर्गाणां हितं पथ्यमायती सुखकारकोपायो गर्भे मध्ये यस्यास्तादृशी वाग्विरचना वचनक्रमः । हितशिक्ष त्यर्थः । रसायनं सिद्धैषधमिवास्ति । प्राणिनां तुष्टिपुष्टिकृद्भवति ॥
अङ्गनाङ्गपरिरम्भहसन्तीगर्भगेहनिवहान्प्रविहाय ।
मर्षयिष्यसि कथं वद सैष्यं भूमिमानिव भटानरिसैन्यम् ॥ ६१ ॥ भ्रातः त्वं वद कथय अङ्गनानां खपाणिगृहीतगृहिणीनामङ्गस्य कायस्य परिरम्भ आश्लेषः स्वकामिनीकायेन सममालिङ्गनम् । शीतकाले तस्योष्णस्पर्शत्वात् । तथा-- हसन्त्यः कृशानुशकटिकाः, तथा - गर्भगेहा अपवारकाः । 'उरडा' इति लोके प्रसिद्धा । एतेषां निवहान् समूहान् प्रविहाय त्यक्त्वा त्वं सैष्यं शिशिरर्तुम् । उपलक्षणाद्धेमन्तमपि । एताबता शीतकालं कथं केन प्रकारेण मर्षयिष्यति सहिष्यते । 'सहते मृष्यति मर्पति मृषयति मर्षयति मते चैव क्षमते तितिक्षते च क्षाम्यति चेति क्षमाविषयाः ॥' इति क्रियाकलापे सहनार्थाः क्रियाः । क इव । भूमिमानिव । यथा राजा भटान्वीरान् विहा य मुक्त्वा अरिसैन्यं शत्रुसेनां कथं सहते ॥ इति शीतकालकाव्यम् ॥ चन्द्रचन्दन शिरोगृहशय्यावारवामनयनावनकेलीः ।
अन्तरेण तरणीरिव सिन्धुग्रष्म एष किमु निस्तरणीयः ॥ ६२ ॥ चन्द्रः शीतरुचिः, चन्दनं श्रीखण्डविलेपनं शिरोगृहम्, चन्द्रशाला । उष्णकाले हि युवानो गृहोपरितनाकाशभूमौ शेरते शीतलात् । तथा — शय्या हंसार्कतूल्यः पल्यङ्का वा । ' तथा - वारवामनयनाः एकैकस्य राजादेरन्यस्यापि पुण्यवतः पुंसो बह्वीषु गृहिणीषु या 'स्वकीयवारके स्वस्यावसरे समेत्य पत्या समं विलसति सा अथ वा चक्रवर्त्यादीनामिव वारविलासिन्यः एकैकस्याः स्त्रियोsनु द्वे द्वे वाराङ्गने । 'सहेलिका' इति प्रसिद्धा । तास्तु चक्रवर्त्यादिभिरेव भुज्यन्ते । नान्यैः पाणिगृहीतिवत् । इति ता वारवर्णिन्यः । तथा— वनकेलयः उद्याननिखेलनानि तमालधारा जलयन्त्र मन्दिरादिषु क्रीडा । एता अन्तरेण विना हे भ्रातः त्वया भवता एष लुकाझलादिभिः सकलजगत्संतापहारको ग्रीष्म उष्णकालः । वसन्तग्रीष्मौ द्वावप्युष्णसमयः । स किमु कथं निस्तरणीयः अतिक्रमणीय: । क इव । सिन्धुरिव । यथा तरणीवेंडा विना समुद्रः कथं निस्तीर्यते उत्तीर्यते ॥ इति ग्रीष्मसमयकाव्यम् ॥