________________
५ सर्गः
हीरसौभाग्यम् । अनित्यतामेव दर्शयति
सांध्यराग इव जीवितमस्ते यौवनं च सरितामिव वेगः ।
यत्क्षणेव कमला क्षणिकेयं तत्त्वरध्वमनिशं जिनधर्मे ॥ २२ ॥ यत्कारणात् सांध्यरागः संध्यासमयसंबन्धी रागः उपलक्षणानीलपीतकृष्णवतरक्ताभ्रिकाप्रकरस्तद्वजीवितम् । यथा संध्याग: क्षणात् प्रध्वंसं भजते तथा जीवितव्यमपीति । च पुनयौवनं तारुण्यं सरितां प्रावृषेण्यनदीनां वेग इवास्ति । यथा नदीनां पूरं त्वरितं प्रयाति। यतः 'यौवन जाइ वेगिनदी युंजलपाइ इन्दचन्दनागेन्द कहो कुण थिट रहइ' इति सूतोकेः । तथा यौवनमपि । पुतत्कारणात् इयं कमला लक्ष्मीः क्षणेव वेद्युदिव क्षणशब्दो वेश्मरत्नशान्तिचरित्रेऽस्ति । क्षणिका क्षणमात्रस्थायुका । 'करिकर्णचला कमला' इति वचनात् । तत्कारणादनिशं जिनधर्मे त्वरध्वं त्वरां कुरुध्वम् । शीघ्र जिनधर्ममेव कुरुतेत्यर्थः ॥ इति गुरुदेशना ॥
भारतीमिति निशम्य शमीन्दोः कल्पिताप्लव इवामृतकुण्डे ।
उल्लसत्पुलकपल्लविताङ्गश्चेतसीति विततर्क कुमारः ॥ २३ ॥ कुमारो हीरनामा चेतसि खमनसि इति वक्ष्यमाणं वितर्के चिन्तयामास । किंभूतः कुमारः। उल्लसन् प्रकटीभवन् यः पुलको रोमाञ्चस्तेन पल्लवितमङ्गं वपुर्यस्य । उत्प्रेक्ष्यतेअमृतस्य सुधायाः कुण्डे कल्पितः कृतः आप्लवः स्नानं येन तादृश इव । किं कृत्वा । शमीन्दोर्मुनिचन्दस्येत्यायुक्तप्रकारेण भारती वाणीम् । देशनामित्यर्थः । निशम्य श्रुत्वा ॥
अस्ति कश्चन न कस्यचनापि भ्रातृपुत्रपितृमित्रजनादि ।
संसृतौ क्षणिकतां कलयन्त्यां नानुयाति परलोकजुषं यत् ॥ २४॥ कस्यचनापि पुंसो भ्राता बन्धुः, पुत्रः सुतः, पिताजनकः, मित्रं सुहृत्, जनः कुटुम्ववर्गः, स आदौ पूर्व यस्य तादृक्कश्चिन्नास्ति यत्कारणात् क्षणिकतां क्षणमात्रस्थायित्वं 'जे पुवढे दिहा ते अवरहे न दीसन्ति' इति वचनात् क्षण विध्वंसिभावं कलंयन्त्यां दधयां संसृतौ संसारे परलोकजुषं भवान्तरभाजं खजनं कोऽपि नानुयाति न पश्चात्पृष्ठे वा ब्रजति । अन्यस्मिन् भवेन कोऽपि सार्ध याति । एक एव जीवो यातीत्यर्थः । यतः परलोकजुषां खकर्मभिर्गतयो भिन्नपथा हि देहिनाम्' इति रघौ ॥ ... वल्लभीभवति यद्भवभाजां खार्थ एव न तथात्र परार्थः ।
पर्वणीन्दुरपि पङ्कजपाणिं यात्यसौ वसुकृतेऽपरथा नो ॥२५॥ यत्कारणादत्र जगति भवभाजां जन्तूनां यथा येन प्रकारेण खार्थ एव केवलं निजकार्थमेव वल्लभीभवति इष्टो जायते, तथा तेन प्रकारेण प्राणिनां परेषामर्थः अन्यकृत्यं न वल्लभः स्यात् । उक्तमर्थ दृष्टान्तेन द्रढयति--असा प्रत्यक्षो महत्सु विख्यातिमान् इन्दुश्चन्द्रोऽपि पर्वणि अमावास्यायां वसुकृते रत्नकृते । वसु कान्तिधनयोः । तदर्थ