________________
१९१
काव्यमाला।
समस्तं द्रविणं धनं येभ्यो येषां वा तथाविधाः सन्तो नरकस्य दुर्गतवर्ममार्ग भजन्ते आश्र'यन्ते। किंवत् । रकवत् । यथा द्रमकानिधापितसमस्तखधनाः सन्तो मार्ग नगर• ध्वानं भजन्तः केनचिदप्यकृतरक्षा दुष्टावस्थापतिता नित्यमनुभूय म्रियन्ते ॥
धर्ममार्हतमतो जनिमन्तो यानपात्रमिव संग्रहयध्वम् । - तस्थुषी भवपयोनिधिपारे मुक्तिनामनगरी च जिहीध्वम् ॥ १९ ॥ हे जनिमन्तो भव्याः, अतोऽस्मात्कारणाद्यानपात्रं वहनमिवाईतं ज़िनप्रणीतं धर्म सं. ग्रहयध्वम् । धर्मसंग्रहं कुरुतेत्यर्थः । 'ग्रहाति ग्रहयते लाति' इति क्रियाकलापे ग्रहणार्थाः क्रियाः । पुनयूयं भवन्तः भवः संसारः स एव पयोनिधिरगाधत्वात्समुद्रः तस्य पारे परस्मिंस्तटे तस्थुषी स्थितिमती मुक्तिः सिद्धिरेव नाम यस्यास्तादृशीं नगरी जिहीध्वं गच्छत । यानपात्रसंग्राहिणो जना हि पाथोपियरपारपुरीमासादयन्तीति स्थितिः ॥
द्वे महोदरपुरस्य पदव्यौ प्रध्वरा च विषमा च जिनोक्ते । ।
आदिमा ननु महाव्रतनामा पश्चिमा पुनरणुव्रतरूपा ॥ २० ॥ • भो भव्याः,महोदयपुरस्य मुक्तिनामनगरस्य द्वे उभे पदव्यौ मार्गो स्त: भगवता कथितौ वर्तेते । द्वे के । एका प्रध्वरा सरला च, पुनरपरा विषमा कुटिला । तत्र द्वयोर्मध्ये आ. दिमा पदवी प्रथमो मार्गः ननु निश्चितं महान्ति सर्वसावद्यव्यापारनिषेधरूपाणि । सर्वप्राणातिपातविरमण-सर्वमृषावादविरमण-सर्वादत्तादानविरमण-सर्वभैथुनविरमणसर्वपरिग्रहविरमण-इति पञ्च महाव्रतानीति नाम यस्याः सा,। 'साक्षादप्सरसो विमानकलितव्योमान एवाभवान्' इति नैषधे । तेन महाव्रतनामा इति प्रयोग: । पुनः पश्चिमा तयोरन्तिमा अणुव्रतानि देशविरतिभाजाम् । स्थूलप्राणातिपातविरमणस्थूलमृषावादविरमण-स्थूलादत्तादानविरमण-खदारसंतोषपरस्त्रीविधवावेश्याकन्याविरमण-स्थूलपरिग्रहपरिमाण-दिग्विरमण-भोगोपभोगविरमण-अनर्घदण्डविरमण-सामायिकवत-देशावगासिक-पौषधोपवासव्रत-अतिथिसंविभागव्रतरूपाणि द्वादशसंख्याकानि रूपं यस्याः सा ॥
तर्णमस्ति यदि तत्र यियासा प्रध्वरे पथि ततः प्रयतध्वम् ।
सौगतोदितपदार्थ इवास्ते यद्भवः स्फुरदशाश्वतभावः ॥ २१ ॥ भो भव्याः, यदि भवतां तत्र महोदयपुरे तूर्ण शीघ्रं यियासा गन्तुमिच्छास्ति वर्तते, ततस्तहि प्रध्वरे साधुमार्गरूपे सरले पथि पदव्यां प्रयतध्वं प्रयत्नं कुरुध्वम् । यद्यस्माकारणात् भवः संसारः स्फुरन् प्रकटीभवन् अशाश्वतभावः विनश्वरता यत्र एतादृश आस्ते । क इव । सौगतादिपदार्थ इव । यथा बौद्धकथितवस्तुव्रजे 'सर्वे क्षणिकम्' इति वाक्यात यावत्पदार्थसार्थे अनित्यता वर्तते ॥