________________
४ सर्गः
हीरसौभाग्यम् । पुनः किंमतः । गङ्गायास्तरङ्गाः कल्लोलान्तद्वदाचरिता वाचां वाणीनां विलासा वैचित्र्यो यस्य । 'असकृदमृतबिन्दुस्पन्दिनो वाग्विलासाः' इति चम्पूकथायाम् । 'निरन्तरसुधारसाविष्दारिण्या वचनवैचित्र्या' इति चम्पूटिप्पनके । क इव । सभ्य इव । यथा पार्षद्यः साधुर्वा सभारूपं स्थानं गृहं पदं वा आश्रयति । सभ्योऽपि किंभूतः । प्रज्ञया सुराचार्य जयन् , मन्दाकिनी वीचीयमानवचनचातुर्यः, सभायां साधुः.सभ्यः ॥ पदप्रदानावसरे समीक्ष्य साक्षात्तदंसोपरिवाणिपझे। . राज्यादिव क्षोणिपुरंदरस्य भ्रंशोऽस्य भावी नियमस्थितेर्हा ॥ ७२ ॥ इत्थं गुरुं खं विमनायमानमालोक्य लोकेश्वरगीतकीर्तिः ।। तत्याज यः षड्विकृतीव्रतीन्द्रः षडान्तरारीनिव जेतुकामः ॥ ७३ ॥ ये लोकानां पातालभूमिवर्गलक्षणानामीश्वरैरिन्दैर्नागेन्द्रनरेन्द्रसुरेन्द्रगीता गानविषयीकृता कीर्तिता वा कीर्तिर्यस्य तादृशो वतिनां साधूनामिन्द्रः स्वामी श्रीमानदेवसूरिः षट्संख्याका घृतपक्कानतैलगुडदविदुग्धाभिधा विकृतीस्तत्याज जहाति स्म । उत्प्रेक्ष्यतेषट्संख्याकान् कामक्रोधमदमत्सरमायालोभादिकान् आन्तरान् अन्तरङ्गान् रिपून् विजेतुकामः पराभवितुमिच्छरिव । किं कृत्वा । इत्थममुना प्रकारेण विमनायमानं विरुद्धं मनो यम्य स विमनाः, न विमना विमनाः स्यादिति विमनायते, चिमनायते इति विमनायमानस्तम् । भृशादिभ्यो भुव्यर्थे च्वेलोपश्च हल:। भृशादिभ्यश्चव्यर्थे भवत्यर्थेक्यङ् स्यात् न तु व्यन्तेभ्य: अन्त्रहलूलोपश्च । अभृशो भृशो भवतीति भृशायते उन्मनायते' इति प्रक्रिया कोमुद्याम् । खमात्मीयं गुरुं प्रद्योतनसूरिमालोक्य दृष्ट्वा । इत्थं कथं पदस्य सूरिपदस्य प्रदानावसरे विश्राणनव्यतिकरे तदंस परि मान देवसूरिस्कन्धोपरिष्टात् साक्षात्प्रत्यक्षलक्ष्ये वाणिपद्मे सरखतीलक्ष्म्यो । वाणिशब्दो ह्रखोऽप्यस्ति । 'अन्तर्वाणिस्तु शास्त्रवित्' इति हेम्याम् । अन्यत्रापि-व......' । हा इति खेदे । सरखतीलक्ष्मीसंश्रितत्वेन राजादिसत्कारजनितप्रमादाचरणवशादित्यध्याहार्यम् । नियमस्थितेश्चारित्रादस्य मम पधरस्य अंशो भावी व्रताटो भविष्यतीति । कस्येव । क्षोणिपुरंदरस्येव । यथा कस्यनिद्राज्ञः अन्यायासेवनरूपप्रमादाद्राज्याझंशो भवति । युग्मम् ॥ .. चमूभिरुर्वीन्द्रमिवामरीभिरुपास्यमानं यमवेक्ष्य कश्चित् । . किं स्त्रीयुतोऽसाविति संशयानो नडुलकेऽशिक्ष्यत ताभिरेव ॥ ७४ ॥ • चमूभिगंजवाजिरथपत्तिलक्षणाभिश्चतुरङ्गिणीभिः सेनाभिः उवीन्द्रं क्षोणीशक्रमिव । पद्मा-जया विजया-अपराजिताभिधाभिश्चतसृभिर्देवीभिः प्रत्यक्षमुपास्यमानं सेव्यमानं नड्डलनगरोपाश्रयापवरके यं मानदेवसूरिमवेक्ष्य दृष्ट्वा असौ आचार्यः किं स्त्रीयुतो वनिताकलेतोऽस्तीति संशयान: संदेहं कुर्वाण: । कश्चित् खयं संतिष्टासुतया दुय्यवनप्रकरैः प्रणुन्नतन्निकृष्टनिर्जरनिर्मितजनमापाप्लवोपद्रुतेन तिक्षशिलानगरीसंघेन कृतकायोत्सर्गप्र१. 'तक्षशिला' इति पाठो भवन