________________
१२४
काव्यमाला।
यदीयवक्रकासारस्य कुमारसंवन्धिवदनसरसः पालि: सेतुरिव सरसो जलरुन्धनस्थानं पालि: । सेतौ पाल्यालिसंवराः' इति हैम्याम् । च पुनः श्रवणयोः कर्णयोर्नवानां नवेति संख्यानां द्वयस्य युगलस्य अङ्क: अष्टादशसंख्यावाची अङ्को लिपिविशेषः स्वेन नयद्वयलक्षणेनात्मना मितेषु प्रमाणीकृतेषु अष्टादशसु द्वीपेषु । 'अष्टादशद्वीपनिखातयूपः' इति रघुवंशे। 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे। इति द्वीपानामष्टादशतापि । शिशोहीरकुमारस्य भाविनमग्रे भविष्यन्तं श्लोकं यशः सूचयति कथयति किमु । कर्णयोराकृ: तिरूपो नवाको दृश्यते । यथा 'कर्णान्तरुत्कीर्णगभीरलेखः किं तस्य सख्यैव न वा नवाङ्कः' इति नैषधे । एतावता हीरकुमारयशोऽष्टादशद्वीपेषु भविष्यतीति सूचा ॥
विद्वेषिभावमपहाय परस्परेण
केशच्छटास्फटिकहाटककुण्डलाङ्गाः । खर्भाणुशुभ्रकिरणाम्बुजबन्धवोऽमी
यस्मिन्विधातुमिव साप्तपदीनमीयुः ॥ ८९ ॥ यस्मिन्कुमारे सम्यक्स्थाने केशच्छटा केशपाशः स्फटिकं श्वेतरत्नं तथा हाटकं काञ्चनं तयो रचनाविशेषेण सदृशीकृते कुण्डले कर्णाभरणे ते अङ्गानि कायारूपाणि वा येषां तादृशा अमी प्रत्यक्षलक्षाः।खर्भाणू राहुः, शुभ्रकिरणश्चन्द्रः, अम्बुजबन्धुर्भास्करः, राहुचन्द्रार्काः। उत्प्रेक्ष्यते-मिथः परस्परं साप्तपदीनं मैन्यं सौहार्दम्। 'सख्यं तु सौहदं सौहार्द साप्तपदी. नम्' इति हम्याम् । विधातुं कर्तुम् ईयुरागता इव । किं कृत्वा । परस्परेण अन्योन्येन विद्वेषिभावं विरोधिताम् अपहाय त्यक्त्वा ॥
सक्तः श्रुतौ शिशुशशी यदसावितीव
तच्चक्षुषी श्रुतियुगं परिषखजाते । नीलोत्पले उदयतः कुमुदोर्यदाक्ष्णो
लक्ष्मी तदा तरलतारिकयोः श्रयेते ॥ ९० ॥ यद्यस्मात्कारणादसौ अयंवर्ण्यमानः शिशुषु कुमारेषु दृश्यमानो नयनानामाहादकत्वात् शशी चन्द्र इव शिशुशशी श्रुतौ शास्त्रे सक्तः प्रल आसक्तोऽस्ति । उत्प्रेक्ष्यते-इति हेतोस्तच्चक्षुषी कुमारलोचने श्रुतियुगं श्रवणयामलं परिषस्वजाते आलिङ्गतः स्म । च पु. नर्यदा यदि नीलोत्पले कुवलंये कुमुदोः कैरवयोमध्ये उदयेते उद्गमं लभेते तदा तर. ले चपले तारिके कनीनिके ययोस्तादृशयोस्तदक्ष्णोः कुमारलोचनयोर्लक्ष्मी श्रियं शोभां श्रयेते भजेते । कुमुदे कुमारलोचनतुलामाकलयतः ॥
१. 'पूर्वपदात्संज्ञायाम्' इति हैमाभिधानचिन्तामणि:. 'क्षुम्नादित्वान्न णत्वम्' इति नामालिङ्गानुशासनव्याख्यानामाशयः.