________________
३ सर्गः] हीरसौभाग्यम् ।
- १२३ न्द्रिकया व्यवभासितम्' इति रघौ । इति चन्द्रिकाशब्देन दन्तगुतिश्चन्द्रिका च । चतु:संख्याका द्विजानां राजानो द्विजराजा राजदन्ताश्चन्द्रश्च तथा राजत् दीप्यमानं यद्भालं ललाटमेवार्धशीतमहाः सामिसोमस्तान् । सार्धचतुश्चन्द्रानित्यर्थः । वहते स्म दधार । स कुमारो द्वासप्ततिसंख्याकाः कलाः कथं न कलयतात् धत्ताम् । अपि तु सार्धचतुश्चन्द्रघारी गणनया द्वासप्ततिकलाकलित एव स्यात् । किंभूतः । शुद्धो निर्मल: निष्पापः विशदश्च आशयश्चित्तं मध्यं च यस्य । पुन: किंभूतः । अमृतरसवत्सुधानिस्यन्द इवा. चरितो वाग्विलासो वचनवैचित्री यस्य । चन्द्रा अपि श्वेता अमृतयुताश्च स्युः ॥
. भालस्थलप्रसृमरांशुपयःप्रवाहो. पान्तप्ररूढलतिकेव विभाति यद्भः । ..शङ्खोऽप्यभूद्वदनवारिजपार्थिवस्य
चन्द्रादिवैरिविजये किमु वादनार्हः ॥ ७ ॥ ययस्य कुमारस्य भूर्नयनयोरुपरि रोमपद्धतिर्भाति स्म रराज । उत्प्रेक्ष्यते-भालस्थलस ललाटपट्टस्य प्रसमरा विस्तरणशीला ये अंशवः किरणास्त एव पयःप्रवाहः सलिलानामोघस्तस्योपान्ते तटप्रदेशे प्ररूढा प्रोद्गता लतिका । अथवा फलिनी वल्ली खभावलतिका वा । अपि पुनर्यद्वक्रे शङ्खः भालश्रवणयोरन्तराले कश्चित् प्रदेशविशेषः अभूजज्ञे । 'शङ्खः कम्बा निधिभेदे स्थानख्यामलिकास्थानि' इत्यनेकार्थः । ललाटप्रान्तवर्तिनि अस्थनीति तदवचूर्णिः । शङ्खो भालस्रवोऽन्तरे' इति हैम्याम् । उत्प्रेक्ष्यते-वदनमर्थात् कुमारमुखमेव वारिजानां कमलानां राजा पार्थिवस्तस्य । चन्द्रादीनां विधुदर्पणप्रमुखाणां वैरिणां शत्रूणां विजये जयप्राप्तौ पराभवनावसानसमये वा वादनस्य पूरणस्य अर्हो योग्यः शङ्खः कम्बुः किमु । विजयिराजानो हि रिपूनिर्जिय खविजयसूचकं शङ्ख वादयन्तीति प्राक्तननृपरीतिः । यथा-खाविनयकरणप्रकुपितमतङ्गतापसप्रदत्तमतङ्गजीभवनशापापनयनप्रादुर्भूतखाभाविकखरूपप्रसन्नीभवद्गान्धर्वदेवविश्राणितप्रयुक्तसंहारविभक्तमन्त्रप्रस्खापनशस्त्रानुभावपराभूतसमस्तप्रतिपक्षक्षितिपतिपताकिनीप्रारब्ध. दुर्धरमहायोधनपयोनिधिमध्यसमुद्भूतविजयश्रीखीकरणावसरे अजकुमारः 'ततः प्रियोपात्तरसोऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः' इत्येतत्सर्वविस्तारो रघुवंशे ॥
लावण्यनीरनयनाजयदीयवक्र
कासारपालिरिव कर्णयुगं विभाति । द्वीपेषु सूचयति किं स्वमितेषु भावि
श्लोकं शिशोः श्रवणयोश्च नवद्वयाङ्कः ॥ ८ ॥ कर्णयुगं कुमारश्रवणयुगं विभाति शोभते । उत्प्रेक्ष्यते-लावण्यं ममोज्ञता खरूपसौन्दर्य वा एव नीरं सलिलं यत्र तथा नयने लोचने एवाब्जे कमले यत्र तादृशस्य