________________
काव्यमाला।
मवहत धत्ते स्म । 'सुदक्षिणा दोहदलक्षणं दधौ' इति रघुवंशे । तथा 'गर्भस्तु गरभो. भ्रूणो दोहदलक्षणं च सः' इति हैम्यामपि । केव । अमरशैलभूमीव । यथा मेरुमही कल्पद्रुमाङ्करं सुरतरुप्ररोहं वहते । पुनः केव । विदूरधरणीव । यथा दिदूरपर्वतस्य पृ. थिवी । 'यथा विदूरीन्दिरदरतां गमी' इति नैषधे । घनवनोत्यं प्रावृट्समयप्रादुर्भतं पयोधरधीरगारवश्रवणसमुद्भूतं रत्नं वैदूर्य नाम मणि बिभर्ति । प्रावृट्काले हि सजलजल.. घरौजितगजिताकर्णनसमये एव विदरभूधरभूमौ वैदूर्यरत्नशलाकाः प्रादुर्भवन्तीति श्रुतिः । पुनः केव । इभकपोलपालीव । यथा गजेन्द्रगण्डस्थलम् । पालीशब्दो दीर्घोऽप्यस्ति । यथा-'कालिन्दीकूलपालीषु' इति पाण्डवचरित्रे । अन्तर्मध्ये मदानां दानजलानामुदयं प्रादुर्भावं धत्ते । 'अन्तर्मदावस्थ इव द्विपेन्द्रः' इति रघौ ॥
श्रीमन्महेभ्यपुरुहूतपयोरुहाक्षी
नीराज्यमानवदना शरदिन्दुबिम्बैः । आसेदुषी शशिमुखी सुषमां दधाना
गर्भ पलालपिहितेक्षुशिशुं क्षमेव ॥ २ ॥ शुक्ती रसोद्भवमिवाम्बु धनावलीव ___ माणिक्यराशिमिव शैवलिनीशवेला । विद्याविशेषमिव विज्ञसभाप्तबिम्ब
प्रासादभूमिरिव वायुसखं शमीव ॥ ३ ॥ रक्ताङ्कपतिरिव कृष्णलताप्ररोह
मात्रेयदृष्टिरिव वल्लभमौषधीनाम् । धात्री निधानमिव शैलगुहेव सिंह कंसारिनामिकनकोशकुटीव शंभुम् ॥ ४ ॥
(त्रिभिर्विशेषकम्) धीमतः शोभाभाजो गणनातीतलक्ष्मीकलितस्य वा, महेभ्यानां अत्युच्चशिलोच्चयप्रमाणवारणपरिमाणसुवर्णवतां व्यवहारिणां मध्ये पुरुहूतस्य इन्द्रस्य सर्वेभ्योऽपि लक्ष्म्या अतिशायित्वात् कुंरासाधोः पयोरुहाक्षी कमलनयना स्त्री नाथी नामा पत्नी सुषुमां सातिशयिनी शोभामासेदुषी प्राप्तवती । लेभे इत्यर्थः । किंभूता। शशिमुखी चन्द्रानना। किं क्रियमाणा । शरदिन्दुबिम्बैः शरत्कालसंबन्धिमृगाङ्कमण्डलैः । अर्थात् वेधसा भ्रमणीक्रियाभिः । नीराज्यमानमारात्रिक क्रियमाणं वदनं मुखं यस्याः । पुनः किं कुर्वाणा । गर्भ धारयन्ती । केव । क्षमेव । यधा पलालैर्धान्यत्वग्भिः पिहितमाच्छादि.