________________
८२
काव्यमाला।
करेणुकुम्भस्तनि पश्य दीप्यतेऽन्तिके मणीकुट्टिमविम्बितारकैः । त्वदाननस्वामिसितांशुसेवनाकृते नभस्तः किमुपागतैरिह ॥ १२६ ॥ करेगोहेखिनः कुम्भी शिरसः पिण्डाविव पीनावुच्ची स्तनौ कुची यस्यास्तस्याः संबोधनं हे करेणुकुम्भस्तनि कुम्भिकुम्भपानोचकुचकलशे स्वामिनि, त्वं पश्य निरीक्षम्व। अन्तिके श्रीमत्याः समीपे मगिकुष्टिमविम्बितारकर्विविधरननिबसाधारणभूमौ बि. म्बन्ति अतिस्वच्छवस्तुनि संक्रामन्ति इति बिम्बानि विम्यान्यस्त्ये(नि सन्त्ये)यां तादृशैस्तारकैज्योतिमिदीप्यते । किमुत्प्रेक्ष्यते । त्वदाननं तव मुखमेवं स्वामी पतिः सि. तांशुश्चन्द्रस्तस्य सेवनाकृते पर्युपासनां कर्तुं किमु नभस्तो गगनादिह त्वगृहाङ्गणे समागतैः समेतैरिव ॥
त्वदीयवापीतपनास्तमुद्रिताम्बुजन्मकोशव्यसनानुपातिनः । - क्षपाक्षयायोंकृतिमन्त्रवर्णकानिव द्विरेफा गणयन्ति गुञ्जितैः ॥ १२७॥
हे स्वामिनि, त्वदीयवाप्यां तव क्रीडागृहदीधिकायां तपनस्य सूर्यस्याम्तेन परद्वीपो. पगमनेनावश्यीभावेन । 'तेजोवसाने ब्रजति द्वीपान्तरमहर्मणिः' इति सूक्तवचनात् । मुद्रितानां निमीलितानां मुकुलीभूतानामम्बुजन्मनां कोशेषु यहन्धलक्षणं व्यसनमापत् कोशान्तदुःखस्थितिविपत्तिस्तामनुलक्षीकृत्य ज्ञात्वैव । यत्पमुद्रणायां यामिनी यावकोशान्तरदुःखेन स्थातन्यमेवेति विचार्य पतन्तीत्येवंशीलाः पातिनः । पतित्वा स्थिता इत्यर्थः । द्विरेफा भ्रमराः । अत एवोत्प्रेक्ष्यते । गुञ्जितैर्गुआरवैः कृत्वा क्षपाक्षयाय निशानाशाय । ओंकृतिमत्रवर्णकान् ओंकारपूर्वकवर्णस्तस्याक्षराणि गणपन्ति जपन्तीव ॥
नमःश्रियास्तारकमौक्तिकस्रनः किमेणनाभीशितिमाङ्कनायकः । दृशा विनिर्दिश्य शशाङ्कमादरात्परा ददे कापि गिरं मृगेक्षणा ॥ १२८ ॥ परा अन्या कापि मृगेक्षणा सखी आदरात् तस्यां स्वस्वामिन्यामतिवहुमानादिरं वाणीमाददे । जवाहेत्यर्थः । किं कृत्वा । दशा नेत्रेण शशाङ्क चन्दं विनिर्दिश्य दर्शयित्वा । यतः । शशः आड़े चक्षुषि उत्स) वा यस्य । 'अङ्गः क्रोडेऽन्तिकागसोः' इत्यनेकार्थः । अत एवोत्प्रेक्ष्यते । नमःश्रिया गगनलक्ष्म्यास्तारका ज्योतिर्गणा उज्ज्वलानि वा मौक्तिकानि स्थूलमुक्ताफलानि तेषां स्रजो मालायाः । हारस्येत्यर्थः । एणनाभ्याः कस्तूरिकायाः शितिमा श्यामतमझे कोडे यस्य कस्तरीकलितमध्यो नायको मध्यमणिः किम् ॥ निजाक्षिलक्ष्मीहसिताजखञ्जनेऽधरीकृतः सुभ्र तवास्यविभ्रमैः । विवर्णताश्लेषिमुखस्नपाभरादिवास्ततां याति तमस्विनीपतिः ॥ १२९ ॥ निजस्यात्मनः । यद्वा निजयोरात्मीययोरक्ष्णोर्नयनयोलक्ष्म्या शोभया हमिता निर्मसिता भन्जानि उत्पलकुमुदजातियावत्कमलानि, तथा खजनाः खञ्जरीटा यया तस्याः