________________
२ सर्गः]
हीरसौभाग्यम् ।
८१
अथ भरतचत्रिदिग्विजयादिकथितानन्तरम् अरविन्दचक्षुषः कमललोचनाया नाथीदेव्याः पुरोऽग्रे तस्यां प्रागुक्तायां सख्यामिदं पूर्वोक्तम् ऋषभभरतदिग्विजयचैत्यनिर्मापणादि वदन्त्यां सत्याम् अपरा अन्या काचित्रिपस्तनी कलशोच्चकुचा कौतुकात् कौतूहलाद्विरा वाचा आननं मुखं योजयति स्म । उवाचेत्यर्थः । केव । कीरकामिनीव । यथा मराठिकायां वदन्त्यां हस्यां भाषमाणायां सत्यां की वक्ति ॥
मृगाक्षि पश्यामरसिन्धुसारिणीं त्वमभ्रवीथीं सुमनोवनीमिव । मयूखलेखामकरन्दितारकामणीचका मेचकिमालिमण्डलाम् ॥ १२३ ॥ मृगवदक्षिणी यस्यास्तस्याः संबोधनं हे मृगाक्षि स्वामिनि, त्वमभ्रवीथीं गगनपद्धति पश्य विलोकय । उत्प्रेक्ष्यते । सुमनोवनीमित्र पुष्पवाटिकामिव । देववनं वा । किंभूता । अमरसिन्धुराकाशगङ्गा सैव सारिणी कुल्वा यस्याम् । पुनः किम्ता । मयूखलेखा किरश्रेणिरेव मकरन्दो मधु विद्यते येषु तादृशास्तारका एव मणीचकानि कुसुमानि यस्याम् । भेचकिमा गगनश्यामत्वम् । ' धृतगम्भीरखनीख़नीलिमा' इति नैषधे । तथा 'अचिचण्डांशुरोचिर्गगनमलिनिमा कजलं दह्यमानम्' इति खण्डप्रशस्तौ । तदेव अलिनां भ्रमराणां मण्डलानि वृन्दानि यस्याम् ॥
मृगेन्द्रमध्ये मृगयस्व तारकाञ्श्रमोदबिन्दुस्तबकानिवाङ्गके ।
विभावरी कैरवचक्षुषोऽमुना निखेलयन्त्या दयितामृतांशुना ॥ १२४॥
मृगेन्द्रः केसरी तद्वन्मध्यमुदरं यस्याः, यद्वा मृगेन्द्रमध्यवन्मध्यं यस्याः । मध्यमपदलोपी समासः । कृशोदरीत्यर्थः । त्वं तारकान् (?) ज्योतिश्चक्राणि मृगयस्व पश्य । 'पयःपारावारं परमपुरुषोऽयं मृगयते' इति खण्डप्रशस्तौ । इवोत्प्रेक्ष्यते । अमुना दृश्यमानेन दयितेन भीमृतांशुना सुधाकरेण चन्द्रेण सार्धं निखेलयन्त्या सुरतादिक्रीडां कुर्वत्या विभावरी कैरवचक्षुषो रजनीकुमुदनेत्राया रात्रिस्त्रियः अङ्गमेवाङ्गकम् । 'अकिंचने किंचन नायकाङ्गके' इति नैषधे । श्रमोदविन्दुस्तवकान् परिश्रमसंजातप्रस्वेदजलकणगुच्छानिव । 'श्रमोद विन्दुप्रकरानू' इति पाठो वा । तदा परिश्रमसलिलकणनिकरानिव ॥
कुशेशयामोदिनि वीक्ष्यतामसो शनैः शनैः पङ्कजकाननानिलः । स्वदाननाम्भोजजनुः प्रभञ्जनैर्जितान्तिके किं समुपैति सेवितुम् ॥ १२१ ॥ कुशेशवं कमलं तद्वद्दामोदो वपुः परिमलोऽस्यस्यास्तस्याः संबोधनं हे कुशेशयामोदिनि । पद्मिनीत्यर्थः । हे स्वामिनि, वीक्ष्यतां विलोक्यताम् । अवधार्यतामित्यर्थः । असौ प्रत्यक्षं शरीरस्पर्शनानुभूयमानः पङ्कजकाननानिलो नलिनवनपवनः शनैः अन्तिके श्रीमत्याः पार्श्वे उपैलागच्छति किम् । उत्प्रेक्ष्यते । त्वदाननाम्भोजासन वदनारविन्दाज्जनुरुत्पतिर्येषां तादृशैः प्रभञ्जनैः वद्भकमलसुरभिश्वाससमरिणैत्रतैः सेवितुं त्वत्समीपे इव समुपैति ॥
11