________________
काव्यमाला।
च । तमसामज्ञानानां दुष्कृतकर्मणां वा ध्वान्तानां च सपत्न उच्छेदकृत् । पुनः किंभूतः । श्रितमानिर्मित शंभोजिनेन्द्रस्य जैनश्रावकत्वात् , शिवस्य च शिरःस्थायुकत्वात्, शील. नमाराधनं सेवा येन सः । पुनः किंभूतः । को पृथिव्यां मुदं प्रीति प्रमोदं कैरवाणि कुमुन्दि विकाशयति प्रकटीकरोति विदधाति प्रबोधयतीत्येवंशीलः । पुनः किंभूतः । वचनमेव वाणीतुल्यं च अमृतं सुधां किरन् विस्तारयन् वर्षन् परं तदत्र व्यवहारिणि चित्रमाश्चर्यमस्ति । यत्म महेभ्यो मुत्तास्त्यक्ता दोषा अपगुणा येन । शशी तु. सह दोषया राव्या वर्तते यः स सदोपः ॥
अलम्भि दम्भोलिशयेभशालिनी न कीतिरेतस्य परश्शतैः परैः ।।
शरत्प्रसन्नीकृतचन्द्रगोलिका सुधामरीचेर्ग्रहतारकैरिव ॥ ५ ॥ तस्य कुंराव्यवहारिणः दम्भोलिर्वजं शये यस्य स शक्रः तस्य य इभ. ऐरावणस्तद्वत् शालिनी श्वैत्यात् शोभमाना कीर्तिः परश्शतैः शतात्परैः परश्शतैः सहस्रलक्षकोटिसंख्यैग्न्यः परिभ्यै लम्भि न प्राप्ता । कैरिव । प्रहतारकैरिव । यथा सुधामरीचेरमृतकिरणस्य चन्द्रस्य शरदा घनात्ययेन प्रसन्नीकृता 'जलधररोधापसारणाद्विमलीकृता चन्द्रगोलिका चन्द्रिका प्रहा मङ्गलादयः, तारका नक्षत्रतारास्तैर्न लभ्यते नैव प्राप्यते ॥
वहन्सुपर्वद्रुमरामणीयकं सनन्दनो गोत्रपरार्ध्यतां दधत् । सुजातरूपः सुमनोमनोरमोऽनुयाति यः स्वेन सुपर्वपर्वतम् ॥ ६ ॥
यो महेभ्यः स्वेनात्मना सुपर्वपर्वतं सुरगिरि मेरुमनुयाति अनुकरोति । मेरुणा सदशीभवतीत्यर्थः । किं कुर्वन् । वहन् कलयन् । किम् । सुपर्वद्रुमाः कल्पवृक्षाः दानरूपभूषणसुषमाभिस्तद्वत्तैश्च रामणीयकं मनोहरताम् । पुनः किंभूतः । सहनन्दनाभ्यां हीरकुमारश्रीपालाभिधाभ्यां वर्तते यः । भाविनि भूतोपचारात् । पक्षे-नन्दनवनेनान्वितः । पुनः किंभृतः । गोत्रे स्ववंशे, गोत्रेषु सर्वशैलेगु हीरसूरिपुरंदरपितृत्वेन लक्षयोजनप्रमाणतया सर्वोन्नतत्वेन च परायतां प्रकृष्टतां महिमानं दधत् विभ्रत् । पुनः किंभतः । सुशोभनं जातमत्पन्नं रूपं वपुः सुभगता यस्य । मेरौ तु सुष्ट जातरूपं स्वर्ण यत्र । पुनः किंभूतः । सुमनोभिहीरादिकुसुमैर्मनो हरती(१)त्येवंशीलः । सुष्टु निष्पापं मनो येषां साधनां तेषां मनसि सुगुणमित्वेन रमते इति वा । सुमनसां महात्मनां मध्ये अभिरामो वा । सुमनस्त्वेन मनोज्ञो वा । मेरुस्तु सुमनोभिर्देवैः सुन्दरः ॥
जगज्जनावाङ्मनसावगाहिना गम्भीरभावेन जितेन साधुना । सुधात्रवन्तीपतिना हृदा दधे किमेष रोषो वडवाचिंषो मिषात् ॥ ७ ॥
येन साधुना कुंरासाहेन गम्भीरभावेन स्वगाम्भीर्येण जितेनाभिभूतेन सुधास्रवन्तीपतिना क्षीरसमुद्रेण । किमुत्प्रेक्ष्यते-हृदा हृदयेन कृत्वा वडवाचिषो वडवानलस्य भिषात् कपटात् रोषः कोपः एष प्रत्यक्षः किं दधे धृत इव। किंभूतेन गम्भीरभावेन ।