________________
२ सर्गः ]
हीरसौभाग्यम् ।
४५
किंभूतः । विश्रुतो विख्यातः । केषां मध्ये । रसास्पृशां पुरुषाणाम् क इव । स्वःशिखरीव । यथा महीरुहाणां वृक्षाणां मध्ये कल्पवृक्षो विख्यातोऽस्ति । अतएव किंभूतः कल्पद्रु: स च । न्यक्कृता निवारिता जगन्नानां समस्तार्थिनां निःस्वता दारिद्र्यं येन ॥ अरिष्टकेतुं नवभोगसङ्गिनं त्रिरेखपाणि पुरुषोत्तमं पुनः ।
.
भ्रमाद्विवोदुर्जलधेरिवोद्वहा महेभ्यमभ्येत्य बभाज यं मुदा ॥ २ ॥ जलधेरुद्वद्दा समुद्रपुत्री लक्ष्मीर्ये महेभ्यं व्यवहारिणमभ्येत्य समागत्य मुदा प्रीत्या बभाज समाश्रिता । उत्प्रेक्ष्यते - विवोदुः स्वभर्तुः कृष्णस्य भ्रमात् भ्रान्तेरिव । किंभूतं महेभ्यम् । अरिष्टेषूपद्रवेषु अरिष्टनानि वृषभरूपे दैत्ये च केतुं धूमकेतुनामग्रहस्य सदृक्षम् । तद्विध्वंसकत्वात् । पुनः किंभूतम् । नवानां नूतनानां स्तुतिसंयुक्तानां वा भोगानां सुखानां सङ्गः संगमोऽनुभवः प्राप्तिरस्येति । पक्षे - भोगः सर्पकायः अर्थात् शेषनागशरीरं तस्य सङ्गिनं तच्छनत्वात् । पुनः किंभूतः । त्रिरेखः आकृत्या शङ्खः पाञ्चजन्यश्च पाणौ हस्ते यस्य । पुनः किंभूतः । पुरुषेषु समस्तेषु मानवेषु उत्तमं श्रेष्ठं नाम च ॥
कुबेर इत्यात्मजनावमाननां व्यपोहितुं किंपुरुषेश्वरः स्वयम् । वितीर्णसौवर्णमणीगणोऽर्थिनां प्रणीय यन्मूर्तिमिवावतीर्णवान् ॥ ३ ॥
•
कुंराख्यो महेभ्यो भातीति संबन्धः । उत्प्रेक्ष्यते - किंपुरुषेश्वरो धनदः यस्य कुंरासाधोः मूर्ति शरीरं प्रणीय निर्माय स्वयमात्मना अवतीर्णवान् प्रह्लादपुरे । अवतारं गृहीतवानिव । किं कर्तुम् । व्यपो हितुमपकर्तुम् । काम् । अयं कुबेरः कुत्सितशरीरः । कुरूप इत्यर्थः । तथा - 'जातौ 'न वित्ते न गुणे च कामः सौन्दर्य एव प्रवणः स वामः । स्वच्छे स्वशैलेक्षितकुत्सवेरस्तां प्रत्यगान्न स्त्रितरां कुबेरः ॥' इति नैषधे । स वामो वक्रः । जातावुत्तमवंशे प्रवणो न, नापि वित्ते धने, न च गुणे त्यागशौर्यादौ किं तु स कुटिलः कामः सौन्दर्य एव तात्पर्यवान् । अत एव स्वच्छे निर्मले स्वशैले कैलाशे ईक्षितं दृष्टं कुत्सितं वेरं वपु - येन ईदृशः कुबेरस्तां स्त्रितरां नारीश्रेष्ठां दमयन्तीं प्रति नागात् । 'घरूपकल्पं चेलड्-' इत्यत्र 'स्त्रियोऽन्यतरस्याम्' इति ह्रस्वः । कलेवरशब्दे त्वक्षरद्वयलोपे मात्राविपर्यये बेर इति प्रयोगः । सत्यभामा भामेतिवत् — इति वृत्तिः । इत्यात्मनः स्वस्य लोके जनेऽवमाननामवगणनाम् । निन्दामित्यर्थः । किंभूतः । अर्थिनां याचकानां वितीर्णः विश्राणितः प्रदत्तः सौवर्णः सुवर्णानां समूहः । तथा मणीनां रत्नानां गणो व्रजो येन । एतावता वदान्यता सूचिता ॥
तमः सपत्नः श्रितशंभुशीलनः कुमुद्विकाशी वचनामृतं किरन् । शशीव योऽशीलि कलाभिरिभ्यराट् विमुक्तदोषः स तदत्र कौतुकम् ॥ ४ ॥
य इभ्यराट् व्यवहारिवासवः कलाभिर्द्वासप्ततिलक्षणाभिः शिल्परूपाभिर्वा अशीलि सेवितः । क इव । शशीव । यथा चन्द्रः षोडशसंख्याभिः कलाभिः शील्यते । किंभूतो यः शशी