SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भित्रकाला: शब्दा भिन्नमेव अर्थमभिदधति भित्रकालशब्दत्वात् __ तादृक्सिद्धाऽन्यशब्दवद् इत्यादिः ।।३५।। पर्यायशब्देषु निरुक्तभेदेन भिन्नमर्थं समभिरोहन समभिरूढः ।।३६।। इन्दनाद् इन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८।। यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाऽभिधेया एवं भिन्नशब्दत्वात् करि-कुरङ्ग-तुरङ्गशब्दवद् इत्यादिः ।।३९॥ उदाहरन्ति यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः . . शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ।।३५।। । अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदादिनस्यैवार्थस्याभिधायकत्वं शब्दानांव्यञ्जितम्। एतञ्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ।।३५।। समभिरुढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन् समभिरूढः ।।६।। शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति समभिरूढस्तु पर्यायभेदे भिन्नानर्थानमिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।।३६।। . .. उदाहरन्ति इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।।३७।। इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थं समभिरोहनभिप्रायविशेषः समभिरूढस्तथान्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ।।३७।। एतदाभासमाभाषन्ते पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८॥ . तदाभासः समभिरूढाभासः ।।३८।। उदाहरन्ति यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भित्रशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥३९॥ स्याद्वादमञ्जरी Maharashtrian १९१)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy