SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सर्वथा द्रव्याऽपलापी तदाभासः ।।३०।। तथागतमतम् ।।३१॥ कालाऽदिभेदेन ध्वनेर्थभेदं प्रतिपद्यमानः शब्दः ।।३२।। यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।।३३। तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ।।३४।। ऋजुसूत्राभासं बघतेसर्वथा द्रव्यापलापी तदाभासः ।।३०।। सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः ।।३०।। उदाहरन्ति यथा तथागतमतम् ।।३१॥ - तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहतम् ।।३१।। शब्दनयं शब्दयन्तिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ।।३२।। कालादिभेदेन कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ।।३२।। उदाहरन्ति- . . . यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।।३३।। अत्रातीतवर्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतञ्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे ।।३३।। एतदाभासं ब्रुवते- . . . तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ।।३४ ।। तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । तदाभासः शब्दाभासः ।।३४ ।। १. 'तदाभास' इति क. ह. पुस्तकयोः पाठः । (१९०NA K ARAAAA स्याद्वादमञ्जरी)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy