SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य अधीतमनेन अधीती व्याकरणे, इष्टी यज्ञे।क्तेनेति किम् ? कृतपूवीं कटम् ॥ ९९ ॥ तयुक्त हेतौ । २ । २ । १०० । तेन व्याप्येन युक्ते हेतौ वर्तमानात् सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥१॥ तयुक्त इति किम् ? वेतनेन धान्यं लुनाति ॥ १० ॥ अप्रत्यादावसाधुना। २ । २ । १०१ । प्रत्यादेरप्रयोगे असाधुशब्देन युक्तात् सप्तमी स्यात् । असाधुमैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमत्रो मातरं प्रति परि अनु अभि वा ।। १०१॥ साधुना । २।२।१०२ । अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् । साधुर्मेत्रो मातरि। अप्रत्यादावित्येव? साधुर्मातरं प्रति परि अनु अभि वा ॥ १०२ ॥ . निपुणेन चार्चायाम् । २ । २। १०३ । निपुण-साधुशब्दाभ्यांयुक्तादप्रत्यादौ सप्तमी स्यात्, अायाम् ।मातरिनिपुणः साधुर्वा । अर्चायामिति किम् ? निपुणो मैत्रो मातुः, मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव ? निपुणो मैत्रो मातरं प्रति परि अनु अभि वा ॥ १०३ ॥ स्वेशेऽधिना । २।२ । १०४ । स्वे ईशितव्ये ईशे च वर्तमानादधिना युक्तात् सप्तमी स्यात् । आधिमगधेषु श्रेणिकः, अधिश्रेणिके मगधाः
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy