SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [८३] एष्यहणेनः । २ । २ । ९४ । - एष्यत्यर्थे ऋणेच विहितस्येनः कर्मणि षष्ठी न स्यात् ग्रामं गमी आगामी वा, शतं दायी । एष्यणेति किम् ? साधुदायी वित्तस्य ॥ ९४ ॥ सप्तम्यधिकरणे । २।२।९५ । अधिकरणे एक-द्वि-बहौ यथासंख्यं ङ्योस्-सुपरूपा सप्तमी स्यात् ।कटे आस्ते, दिवि देवाः, तिलेषु तैलम्॥१५॥ नवा सुजथैः काले । २ । २ । ९६ । सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् । द्विरहि अहो वा भु ङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते ॥ ९६ ॥ कुशलाऽऽयुक्तेनाऽऽसेवायाम् । २ । २ । ९७। आभ्यां युक्तादाधारवाचिन: सप्तमी वा स्यात्, आसेवायां तात्पर्ये । कुशलोविद्यायांविद्याया वा, आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे,न तु करोति, आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः॥९७।। स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू प्रसूतैः । २ । २ । ९०। एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ॥ ९८॥ व्याप्ये तेनः । २।२। ९९ । क्ताद्य इन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy