SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०४ श्रीज्ञानमञ्जरी जीवविवेचनतः सर्वपरभावभिन्नमात्मानमुपलभ्य भेदज्ञानी भवति । स च क्रमेणात्मतः परं त्यजन् सर्वपरभावत्यागी सिद्ध्यति । तत्राद्यनयत्रयेण लौकिकलोकोत्तरविवेकः, ऋजुसूत्रनयेन धर्मसाधनविवेकः, शब्दादिनयत्रयेण विभावविभजनक्षयोपशमसाधनोपयोगादिक्षायिकसाधकपरिणतिविवेकः यथाक्रममवगन्तव्यः । तत्रात्मनः कर्मसंयोगैकत्वं विवेचयन्नाहः कर्म जीवं च संश्लिष्टम्, सर्वदा क्षीरनीरवत् । 'विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥ कर्म जीवं च इति-कर्म-ज्ञानावरणादिकम्, जीवं च-सच्चिदानन्दरूपं सर्वदा-सर्वकालम्, क्षीरं-पयः नीरं-जलं तद्वत् संश्लिष्टम् एकीभूतं यो विभिन्नीकुरुते-लक्षणादिभेदैः पृथक् पृथक् कुरुते असौ मुनिहंसः विवेकवान्-भेदज्ञानवान् । जीवो नित्यः, पुद्गलसङ्गाः अनित्याः, जीवः अमूर्तः पुद्गला मूर्ताः, जीवोऽचलः पुद्गलाश्चलाः, जीवः ज्ञानाद्यनन्तचेतनालक्षणः, पुद्गला अचेतनाः, जीवः स्वरूपकर्ता, स्वरूपभोक्ता, स्वरूपरमणाभवविश्रान्ति, पुद्गलाः कर्तृत्वादिभावरहिताः, इत्यादिलक्षणैः विभज्य यो विरक्तः स मुनि:-श्रमणः विवेकवान्-विवेकयुक्त इति ज्ञेयम् ॥१॥ देहात्माद्यविवेकोऽयम्, सर्वदा सुलभो भवे । भवकोट्यापि तद्भेद-विवेकस्त्वतिदुर्लभः ॥२॥ देहात्मा इति-आत्मा त्रिविधः-बाह्यात्मा १ अन्तरात्मा २ परमात्मा ३ चेति । यस्य देहमनोवचनादिषु आत्मत्वभासः, देह एवात्मा एवं सर्वपौद्गलिकप्रवर्त्तनेषु आत्मनिष्ठेषु आत्मत्वबुद्धिः स बाह्यात्मा १ । मिथ्यादृष्टिः एषः । पुनः सकर्मावस्थायामपि आत्मनि ज्ञानाधुपयोगलक्षणे शुद्धचैतन्यलक्षणे महानन्दस्वरूपे निर्विकारामृता १-२. विभिन्नं S.M., B.2., V.2. । ३. विश्रान्तः A.D., V.2., B.1.2. । ४. आत्मत्वस्वभाव: V.1., आत्मस्वभाव: V.2.,B.2 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy