SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ विवेकाष्टकम् (१५) अविद्या इति - एव हि - निश्चये, योगिनः - समाधिदशावस्थाप्रवृत्तचक्रयोगिनः, आत्मनि एव स्वात्मनि एव, परमात्मानम् - उत्कृष्टनिष्पन्नसिद्धात्मानं पश्यन्ति - आत्मनि परमात्मत्वं निर्धारयन्ति । कया? विद्याञ्जनस्पृशा दृशा-विद्या- तत्त्वबुद्धिरूपा अञ्जनस्पृशा दृशा- चक्षुषा, क्व सति ? अविद्या - अज्ञानम् अबोधः - अयथार्थोपयोगो वा तदेव तिमिरं तस्य ध्वंसः तस्मिन् इत्यनेन मिथ्यातिमिरध्वंसे जाते सम्यग्दृष्टयः आत्मानम् आत्मनि पश्यन्ति । अत एव अनेकोपयोगेन श्रुताभ्यासेन आत्मस्वरूपोपलम्भाय तत्त्वपरीक्षणाय यतितव्यम् । यथार्थमात्मस्वरूपपरिज्ञानं विद्या परमोपकारिणी इति ज्ञेयम् ॥८॥ ॥ इति विद्याष्टकम् ॥१४॥ अथ विवेकाष्टकम् ॥१५॥ सा च तत्त्वविद्या विवेकेन - स्वपरविभजनेन स्फुटीभवति, अतः विवेकस्याभ्यासः कर्त्तव्यः । तत्र विवेचनं हेयोपादेयपरीक्षणं विवेकः । नामस्थापनाविवेकौ सुगमौ । द्रव्यविवेकः लौकिकः धनोपार्जनराजनीतिकुलनीतिदक्षस्य भवति । लोकोत्तरस्तु धर्मनीतिदक्षस्य भवति । भावतो विवेकः बाह्यस्वजनधनतनुरागविभजनरूपः बाह्यः । अभ्यन्तरश्च ज्ञाना वरणादिद्रव्यकर्माशुद्धचेतनोत्पन्नविभावितादिभावकर्मैकत्वविभजनरूपः, Jain Education International १०३ तत्स्वरूपश्चायमागमे— 'पुवि रागाइया विभावा सव्वओ विभज्जिज्जा । पच्छा दव्वा कम्मा सव्वविभिन्नो नियो अप्पा ॥ १ ॥ " तथा च प्राभृते- 'समस्तकाचशकलव्यूहपतितं रत्नं रत्नपरीक्षकः गृह्णाति, एवं सम्यग्दृष्टिः सर्वविभावपरभावपरिणतिमध्यस्थमात्मानमचलमखण्डमव्ययं ज्ञानानन्दमयं स्वत्वेन विभज्य उपादत्ते' । श्रीहरिभद्रपूज्यैश्च प्रथमं क्षुद्रादिदोषोपशमे' मार्गानुसारिगुणे तत्त्वजिज्ञासा । तत्त्वज्ञगुरुसेवनतः अतिमधुरत्वेन श्रुतरसिक:, यथार्थजीवा१. शमै: S.M., V.2., A. D. विना । २. गुणैः S. M. विना । For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy