SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १८ काव्यमाला। इदानीं न तथेति खकीये? पृष्ठं परावृत्त्य शयानायाः । त्वच्चिन्तामप्यकुर्वाणाया इत्यपि पराङ्मुखत्वेन ध्वन्यते । सपत्नीसमुत्कर्षजनितेनानुशयेन मम मानसं प्रदीप्य, उष्णनिःश्वासैः पृष्ठमपि किमिति प्रदीपयसि । अथवा परामुख्याः इति विपरीतमुच्यते । अहं तु त्वत्तः प्रेमपराङ्मुखी अस्मि । तामेवानुकूलां वल्लभामुपगच्छ । निःश्वासाभिनयादिभिर्मामात्मानं च किं मुधा खेदयसीति भावः ॥ अवधिदिवसेप्यनागतं नायकं खयमुपगता दूती कस्याश्चिद्विरहिण्या अवस्थामेवमाह तुह विरहे चिरआरअ तिण्णा णिवडन्तवाहमइलेण । रइरहसिहरधएण व मुहेण छाहि विअ ण पत्ता ॥ ३४ ॥ [तव विरहे चिरकारक तस्या निपतद्वाष्पमलिनेन । रविरथशिखरध्वजेनेव मुखेन च्छायैव न प्राप्ता ॥] तव विरहे चिरकारक तस्याः पतदश्रुपूरमलिनेन । छाया मुखेन नाता रविरथशिखरध्वजेनेव ॥ ३४॥ अवधिदिवसलङ्घनात् चिरकारक! पतदश्रुपूरमलिनेन निपतद्वाष्पमलिनेन तस्या मुखेन तव विरहे छायैव कान्तिरेव न प्राप्ता । तव समागमे या कान्तिरभूत्सा एकदिनमपि न दृष्टेति भावः । यथा सूर्यसांनिध्यादविरथध्वजेन कदापि छाया आतपाभावो न प्राप्त इति । 'छाया सूर्यप्रभा कान्तिः प्रतिबिम्बमनातपः' अमरः । ततश्च चिरकारिता परित्यज्य विरहविकलामेनामनुकम्पखेति व्यङ्ग्योऽर्थः ॥ नववधू सतीवृत्तशिक्षणार्थं कापि कुटुम्बसंभाविता पुरन्ध्री आह दिअरस्स असुद्धमणस्स कुलवहू णिअअकुड्डलिहिआई । दिअहं कहेइ रामाणुलग्गसोमित्तिचरिआई ॥ ३५ ॥ [देवरस्याशुद्धमनसः कुलवधूर्निजककुड्यलिखितानि । दिवसं कथयति रामानुलग्नसौमित्रिचरितानि ॥] कुड्यलिखितानि दूषितमनसो ननु देवरस्य कुलयोषित् । दिवसं कथयति रामाऽनुलग्नसौमित्रिचरितानि ॥३५॥ कामविकारेण दूषितमनसो देवरस्य, देवरं प्रतीति भावः । कुलवधूः, कुलीनतया कुटुम्बविघटनभयेन तदुरभिप्रायमन्येष्वप्रकाशयन्तीति कुलवधूपदेन द्योत्यते । गृहभित्तौ लिखितानि रामाऽनुगतलक्ष्मणचरितानि, दिवसं समग्रदिनमभिव्याप्य कथयति । निशि दूषितहृदयतया न भवेत्तत्प्रभाव इति दिवसे वर्णनम् । दिवसमित्यत्यन्तसंयोगेन बहुकालवर्णनात्तदृढीकरणाध्यवसायो ध्वन्यते । सौमित्रिचरितानीत्यनेनैव देवरशिक्षणे संभवत्यपि, 'लक्ष्मणो रामं पितरमिवानुवर्तमानो यथा सर्वदा तन्मतानुयाय्यभवत्तथा त्वयापि ज्येष्टो भ्राता तथैव बोद्धव्योऽन्यथा ज्येष्ठभ्रात्रा सह तवैककुटुम्बेनुगमनं दुर्घटम्' इति 'रामानुगत'पदेनाभिव्यज्यते । कुलवध्वा भित्तिचित्रितं रामायणवृत्तान्तं प्रदर्य तत्र वैमात्रे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy