SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १ शतकम् ] संस्कृतगाथासप्तशती । १७ 'उरे' इत्यस्य प्राकृते 'उरसि' 'पुरे' वा इति द्विधाऽर्थः संभवति । एवम् ‘पहरवणमग्गविसमे' इति विशेषणस्यापि ' प्रहारवणमार्गविषमे' इति ' प्रहरवनमार्गविषमे' इति चोभयथाऽर्थः । शस्त्रप्रहारव्रणकिणैर्विषमे निम्नोन्नत कर्कशेऽस्य ग्रामणीपुत्रस्योर सि जाया पत्नीत्वेन वशंवदा स्त्री कृच्छ्रेण निद्रां लभते । अनिच्छन्त्यपि भयात्तमालिङ्ग्य स्वपितीत्यर्थः । पुरपक्षे तु — प्रहरेण गम्यो यो वनमार्गस्तेन विषमे दुर्गने तस्य पुरे, पल्ली लक्षणया ग्रामवासी जनः सुखं खपिति । पुरस्य सुरक्षिततया निःशङ्कं निद्राति, न कोऽपि जागर्तीत्यर्थः । किंच - मार्गस्य प्रहर गम्यतया न कोपि भवन्तं निर्गच्छन्तमनुस - रिष्यतीत्यपि व्यज्यते । सा किल तस्य जाया, बहुवल्लभत्वात्तस्य स्त्रीमात्रम् न तु प्रियतमा । अत एवाऽसंतोषेण निद्रामलभमाना सा साऽवसरैव । अतस्तत्र निर्विशङ्कं गच्छेति कामिनं प्रति दूत्या द्योत्यते। संस्कृते द्वयोरर्थयोर्युगपत्संग्रहाभावेन अर्थाऽनुगतशब्दानुसारं द्विधा पठनीयं स्यात् ॥ आसक्तिवशाद् गोत्रस्खलिते सत्यन्यनायिकानाम्ना संबोध्य मानेऽनुनयन्तं नायकं धीरा खण्डिता प्रणयकोपवक्रतया सविनयोपालम्भमाह अह संभाविमग्गो सुहअ तुए जेब णवरँ णिव्वूढो । एहिं हि अण्णं अण्णं वाआइ लोअस्स ॥ ३२ ॥ [ अयं संभावित मार्गः सुभग स्वयैव केवलं निर्व्यूढः । इदानीं हृदयेऽन्यदन्यद्वाचि लोकस्य ॥ ] संभावित मार्गीयं निर्व्यूढः सुभग केवलं भवता । हृदयेऽन्यद्वचनेऽन्यन्नूनमिदानीं तु लोकस्य ॥ ३२ ॥ नूनमस्मिन्समये लोकस्य हृदये अन्यत् वचने त्वन्यत् - अयं पुनः प्राक्तनः संभावित - मार्गः श्रेष्ठपुरुषाणां समयः केवलं भवतैव निर्व्यूढो यद्धृदये स्यात्तदेव वचने इति । तव हृदये सैव रात्रिसहचरी रमते अत एवानुनयेपि तन्नामैव गृहीतम् मौखिकेन प्रियवचसापि न मम नाम । अहो ते श्रेष्ठतेति भावः ॥ पत्युरन्यासङ्गेन प्रणयकुपिता पराङ्मुखं शयाना काचित्पृष्टाभिमुखसुप्तं कान्तमाहउहाँ णीससन्तो किंति मह परंमुहीऍ सअणद्वे । हिअअं पलीवि वि अणुसपण पुट्ठि पलीवेसि ॥ ३३ ॥ [ उष्णानि निःश्वसन्किमिति मम पराङ्मुख्याः शयनार्थे । हृदयं प्रदीप्याप्यनुशयेन पृष्टं प्रदीपयसि ॥ ] उष्णानि निःश्वसन्किल शयनार्द्ध किमिति मम पराङ्मुख्याः । मानसमप्यनुशयतः प्रदीप्य पृष्ठं प्रदीपयसि ॥ ३३ ॥ शयनीयार्द्धे पराङ्मुख्याः । पूर्वं तव मम चोभयोः शयनीयमेकमासीन्न विभक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy