SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् , अकि नसमासे च न । एष दत्ते , स लाति । अनग्नसमास इति किम् ? एषक: कृती , सको याति , अनेषो याति , असो वाति ॥४६।। _ व्यञ्जनात् पञ्चमा-ऽन्तस्थायाः सरूपे वा ।१॥३॥४७॥ व्यञ्जनात् परस्य पञ्चमस्याऽन्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । क्रुञ्चो ङ्डौ क्रुड्डौ , क्रुड्डौ । आदित्यो देवताऽस्य- आदित्य: , आदित्य्य: । सरूप इति किम् ? वर्ण्यते ।।४७|| धुटो धुटि स्वे वा ।१॥३॥४८॥ व्यञ्जनात् परस्य धुटो धुटि स्वे परे लुग् वा स्यात् । शिण्ढि , शिड्डि । स्व इति किम् ? तप्ता , दर्ता ॥४८॥ । तृतीयस्तृतीय-चतुर्थे ।१।३।४९॥ तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । मज्जति , दोग्धा ।।४९।। अघोषे प्रथमोऽशिटः ।।३।५०॥ अघोषे परे शिवर्जस्य धुटः प्रथम: स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ॥५०॥ विरामे वा ॥१३॥५१॥ विरामस्थस्याऽशिटो धुट: प्रथमो वा स्यात् । वाक् , वाग् ।।५१॥ न सन्धिः ।१॥३॥५२॥ उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र , तद् लुनाति ॥५२॥ रः पदान्ते विसर्गस्तयोः ।१॥३॥५३॥ पदान्तस्थस्य रस्य तयोविरामाघोषयोर्विसर्गः स्यात् । वृक्षः , स्व: , क: कृती । पदान्त इति किम् ? ईर्ते ।।५३।। ख्यागि ।१॥३॥५४॥ पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । क: ख्यातः । नमः ख्यात्रे ||५४|| १. शिण्डि शिण्ड्डि पिण्ढि पिण्ड्डि पा१ J3 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy