SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । रात् परस्य शिट: स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ।।३७|| पुत्रस्याऽऽदिन्-पुत्रादिन्याक्रोशे ।१॥३॥३८॥ आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे ! , पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्त्रादिनी शिशुमारी , पुत्रादिनीति वा । पुत्त्रपुत्रादिनी नागी , पुत्रपुत्रादिनीति वा ॥३८|| नां धुड्वर्गेऽन्त्योऽपदान्ते ।१॥३॥३९॥ अपदान्तस्थानां म-नानां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता शङ्किता , कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? गम्यते । अपदान्त इति किम् ? भवान् करोति ।।३९।। शिड्-हेऽनुस्वारः ।१॥३॥४०॥ अपदान्तस्थानां म्नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि , दंश: , बृंहणम् ॥४०॥ रो रे लुग् दीर्घश्चाऽदिदुतः ।१।३॥४१॥ रस्य रे परेऽनु लुक् स्यात् , अ-इ-ऊनाञ्च दीर्घः । पुना रात्रिः , अग्नी रथेन , पटू राजा ॥४१॥ ढस्तड्ढे ।१॥३॥४२॥ तन्निमित्ते ढे परे ढस्याऽनु लुक् स्यात् , दीर्घश्चादिदुतः । माढिः , लीढम् , गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते ॥४२।। सहि-वहेरोच्चाऽवर्णस्य ।१॥३॥४३॥ सहि-वह्योढस्य तड्ढे परेऽनु लुक् स्यात् , ओच्चाऽवर्णस्य । सोढा , वोढा , उदवोढाम् ।।४३।। उदः स्था-स्तम्भः सः ।१।३॥४४॥ उद: परयो: स्था-स्तम्भो: सस्य लुक् स्यात् । उत्थाता , उत्तम्भिता ॥४४।। तदः सेः स्वरे पादार्था ।।३।४५॥ तदः परस्य से: स्वरे परे लुक् स्यात् , सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः । पादार्था इति किम् ? स एष भरतो राजा । ॥४५।। एतदश्व व्यञ्जनेऽनग्-नसमासे ।१॥३॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy