SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं अस्मात् स्यन्ताद् अस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्यात् , षष्ठ्यर्थश्चेत् सङ्घः सूत्रं पाठो वा । पञ्चक: सङ्घः , अष्टकं पाणिनीयं सूत्रम् , अष्टकः पाठः ॥१७१|| नाम्नि ।६।४।१७२॥ संख्यार्थात् तदस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्यात् , नाम्नि । पञ्चका: शकुनयः ।।१७२।। विंशत्यादयः ।६।४।१७३॥ एते तदस्य मानमित्यर्थे साधवः स्युः , नाम्नि । द्वौ दशतौ मानमेषां विंशतिः , त्रिंशत् ।।१७३॥ श-चात्वारिंशम् ।६।४।१७४॥ त्रिंशच्चत्वारिंशद्यां तदस्य मानमित्यर्थे डण् स्यात् , नाम्नि । शानि , चात्वारिंशानि ब्राह्मणानि ।।१७४।। पञ्चद्-दशद् वर्गे वा ।६।४।१७५॥ एतौ तदस्य मानमिति विषये वर्गेऽर्थेऽदन्तौ वा निपात्यौ । पञ्चत् , दशत् , पञ्चक: दशको वर्गः ॥१७५।। स्तोमे डट् ।६।४।१७६॥ संख्यार्थात् तदस्य मानमिति विषये स्तोमेऽर्थे डट् स्यात् । विंश: स्तोमः ||१७६।। तमर्हति ।६।४।१७७॥ तमिति द्वितीयान्तार्हत्यर्थे यथोक्तं प्रत्यय: स्यात्। वैषिक: , साहस्रः॥१७७|| दण्डादेर्यः ।६।४।१७८॥ एभ्यो द्वितीयान्तेभ्योऽर्हत्यर्थे य: स्यात् । दण्ड्यः , अर्घ्यः ॥१७८॥ यज्ञादियः ।६।४।१७९॥ द्वितीयान्तात् यज्ञादर्हति इय: स्यात् । यज्ञियो देश: ॥१७९|| पात्रात् तौ ।६।४।१८०॥ द्वितीयान्तात् पात्राद् अर्हति येयौ स्याताम् । पात्र्य: , पात्रियः ।।१८०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy