SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् । पात्रीणा , पात्रिकी ; आचितीना , आचितिकी ; आढकीना , आढकिकी ॥१६३।। द्विगोरीनेकटौ वा ।६।४।१६४॥ पात्रा-ऽऽचिता-ऽऽढकान्ताद् द्विगोर्द्वितीयान्तात् पचदाद्यर्थे ईनेकटौ वा स्याताम् , पक्षे इकण् , तस्य चानाम्नीत्यादिना प्लुप् न अनयोर्विधानबलात् । द्विपात्रीणा , द्विपात्रिकी , द्विपात्री ; द्वयाचितीना , व्याचितिकी , व्याचिता ; व्याढकीना , व्याढकिकी , व्याढकी ॥१६४॥ कुलिजाद् वा लुप् च ।६।४।१६५॥ कुलिजान्ताद् द्विगोर्द्वितीयान्तात् पचदाद्यर्थे ईनेकटौ वा स्याताम् , पक्षे इकण् तस्य च वा लुप् । द्विकुलिजीना , द्विकुलिजिकी , द्विकुलिजी , द्वैकुलिजिकी ॥१६५|| वंशादेर्भाराद्धरद्-वहदावहत्सु ।६।४।१६६॥ एभ्यः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्यय: स्यात् । वांशभारिक: , कौटभारिकः ।।१६६।। द्रव्य-वस्नात् केकम् ।६।४।१६७॥ आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासंख्यं क इकश्च स्यात् । द्रव्यकः , वस्निकः ॥१६७|| सोऽस्य भृति-वस्त्रांशम् ।६।४।१६८॥ स इति प्रथमान्ताद् भृत्याद्यर्थाद् अस्येति षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् । पञ्चक: कर्मकृत् पटो ग्रामो वा , साहस्रः ।।१६८।। मानम् ।६।४।१६९॥ प्रथमान्तात् षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् ,स्यन्तं चेद् मानम् । द्रौणिक: , खारीको राशिः ॥१६९।। जीवितस्य सन् ।६।४।१७०॥ जीवितमानार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्यय: स्यात् , तस्य च न लुप् । द्विषाष्टिको ना ॥१७०॥ सङ्ख्यायाः संघ-सूत्र-पाठे।६।४।१७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy