SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३३८ स्वोपज्ञलघुवृत्तिविभूषितं अस्मात् सप्तम्यन्तात् कुशले कः स्यात् । अश्मकः , अशनिकः ॥९७|| जाते।६।३।९८॥ सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादय: स्युः। माथुरः , औत्स: , बाह्यः , नादेयः , राष्ट्रियः ॥९८॥ प्रावृष इकः ।६।३।९९॥ अस्मात् सप्तम्यन्ताज्जाते इक: स्यात् । प्रावृषिकः ॥९९।। नाम्नि शरदोऽकञ् ।६।३।१००॥ शरदः सप्तम्यन्ताज्जातेऽकञ् स्यात् , नाम्नि । शारदका दर्भाः । नाम्नीति किम् ? शारदं सस्यम् ।।१०।। सिन्ध्वपकरात् का-ऽणौ ।६।३।१०१॥ आभ्यां सप्तम्यन्ताभ्यां जाते कोऽण् च नाम्नि स्यात् । सिन्धुक: , सैन्धवः , अपकरकः , आपकरः ।।१०१।। पूर्वाह्ना-ऽपराह्ला-ऽऽा-मूल-प्रदोषा-ऽवस्करादकः ।६।३।१०२॥ एभ्य: सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः , अपराह्नकः , आर्द्रकः , मूलक: , प्रदोषक: , अवस्करकः ॥१०२।। पथः पन्थ च ।६।३।१०३॥ पथ: सप्तम्यन्ताज्जातेऽको नाम्नि स्यात् , तद्योगे पन्थ् च । पन्थकः ॥१०३।। अश्व वाऽमावास्यायाः ।६।३।१०४॥ अस्मात् सप्तम्यन्ताज्जाते अः , अकश्च नाम्नि वा स्यात् । अमावास्यः , अमावास्यकः , आमावास्यः ।।१०४।। श्रविष्ठा-ऽषाढादीयण् च ।६।३।१०५॥ आभ्यां सप्तम्यन्ताभ्यां जाते ईयण् अश्व नाम्नि स्यात् । श्राविष्ठीयः , श्रविष्ठः ; आषाढीयः , अषाढः ।।१०५|| फल्गुन्याष्टः ।६।३।१०६॥ अस्मात् सप्तम्यन्ताज्जाते टो नाम्नि स्यात् । फल्गुनः ।।१०६।। १. नाम्नि P3 मध्ये नास्ति ।। २. पन्थ च P3 | पथ: J1 । पन्थः J3 ।। ३. आषाढः P3सं० J2सं० J3 विना सर्वत्र । “अणमपीच्छन्त्येके-श्राविष्ठ: आषाढः" इति बृहद्वृत्तौ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy