SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३३७ आभ्यां शेषेऽर्थे तनड् वा स्यात् । पूर्वाह्नेतन: , अपराह्नेतन: ; पौर्वाह्निक: , आपराह्निकः ।।८७॥ सायं-चिरं-प्रारू-प्रगे-ऽव्ययात् ।६।३।८८॥ - एभ्योऽव्ययाच्च कालार्थाच्छेषेऽर्थे तनड् नित्यं स्यात् । सायंतनम् , चिरन्तनम् , प्रारूतनम् , प्रगेतनम् , दिवातनम् ॥८८|| भर्तु-सन्ध्यादेरण् ।६।३।८९॥ भं नक्षत्रम् , तदर्थाद् , ऋत्वर्थात् सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् स्यात् । पौषः , ग्रैष्मः , सान्ध्यः , आमावास्यः ।।८९॥ संवत्सरात् फल-पर्वणोः ।६।३।९०॥ अस्मात् फले पर्वणि च शेषेऽर्थेऽण् स्यात् । सांवत्सरं फलं पर्व वा ।।९०।। हेमन्ताद् वा , तलुक् च ।६।३।९१॥ अस्माच्छेषेऽर्थेऽण् वा स्यात् , तद्योगे च तो वा लुक् । हैमनम् , हैमन्तम् , हैमन्तिकम् ।।९१॥ प्रावृष एण्यः ।६।३।९२॥ अस्माच्छेषेऽर्थे एण्य: स्यात् । प्रावृषेण्यः ।।१२।। स्थामा-ऽजिनान्ताल्लुप् ।६।३।९३॥ स्थामान्तादजिनान्ताच्च परस्य शैषिकस्य लुप् स्यात् । अश्वत्थामा , सिंहाजिनः ||९३॥ तत्र कृत-लब्ध-क्रीत-सभ्भूते ।६।३।९४॥ तत्रेति सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च स्युः । स्रौनः , औत्स: , बाह्यः , नादेयः , राष्ट्रियः ॥९४|| कुशले ।६।३।९५॥ सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयः स्यु: । माथुर: , नादेयः॥९५।। पथोऽकः ।६।३।९६॥ सप्तम्यन्तात् पथ: कुशलेऽक: स्यात् । पथकः ।।९६।। कोऽश्मादेः ।६।३।९७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy