SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अप्राण्यर्थाद् दोरभक्ष्या-ऽऽच्छादने विकारेऽवयवे च मयट् स्यात् । आम्रमयम् | अप्राणिन इति किम् ? चाषम्, चाषमयम् ||४९|| गोः पुरीषे | ६| २|५०|| गोः पुरीषेऽर्थे मयट् स्यात् । गोमयम्, पयस्तु गव्यम् ||५०|| व्रीहेः पुरोडाशे | ६ | २|५१ ॥ व्रीहेः पुरोडाशे विकारे नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? व्रैह ओदनः व्रैहं भस्म ||५१ || , तिल - यवादनाम्नि | ६।२।५२।। आभ्यां विकारेऽवयवे चाऽनाम्नि मयट् स्यात् । तिलमयम्, यवमयम् । अनाम्नीति किम् ? तैलम् यावः ||५२|| पिष्टात् । ६।२।५३॥ , पिष्टाद् विकारेऽवयवे चानाम्नि मयट् स्यात् । पिष्टमयम् ॥५३॥ नाम्नि कः | ६ |२॥५४॥ पिष्टाद् विकारे नाम्नि कः स्यात् । पिष्टिका || ५४ || ह्योगोदोहादीनञ् हियङ्गुचास्य | ६ | २|५५ || ३१७ , अस्माद् विकारे नाम्नि ईनञ् स्यात् तद्योगे च प्रकृतेर्हियङ्गुः । हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव - ह्यौगोदोहं तक्रम् ||५५|| अपो यञ् वा | ६| २|५६॥ अपो विकारे यञ् वा स्यात् । आप्यम्, अम्मयम् ||५६|| लुब् बहुलं पुष्प - मूले |६|२|५७॥ विकारा-ऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम् विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम्, ऐरण्डं मूलम् ||५७॥ फले |६|२|५८|| विकारेऽवयवे वा फलेऽर्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ||५८|| प्लक्षादेरण् ।६।२।५९॥ १. sara चा इति पाठ: P3सं० J3 मध्ये बृहद्वृत्तौ च नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy