SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३१६ स्वोपज्ञलघुवृत्तिविभूषितं कोशाद् विकारे एयञ् स्यात् । कौशेयं वस्त्रं सूत्रं वा ॥३९॥ परशव्याद् यलुक् च ।।२।४०॥ अस्माद् विकारेऽण् स्यात् , यस्य लुक् च । पारशवम् ।।४०।। कंसीयाभ्यः ।६।२।४१॥ अस्माद् विकारे ज्य: स्यात् , तद्योगे यलुक् च । कांस्यम् ।।४१।। हेमार्थान्माने ।६।२।४२॥ अस्मान्माने विकारेऽण् स्यात् । हाटको निष्क: । मान इति किम् ? हाटकमयी यष्टिः ।।४२।। द्रोर्वयः ।६।२।४३॥ द्रोर्माने विकारे वय: स्यात् । द्रुवयं मानम् ।।४३।। मानात् क्रीतवत् ।६।२॥४४॥ मानं सङ्ख्यादि , तदर्थाद् विकारे क्रीते इव प्रत्यया: स्युः । यथा शतेन क्रीत: शत्य: शतिको वा तथा तद्विकारेऽपि ।।४४|| हेमादिभ्योऽञ् ।६।२।४५॥ एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः , राजतः ।।४५।। अभक्ष्या-ऽऽच्छादने वा मयट् ।६।२।४६॥ षष्ठयन्ताद् भक्ष्याऽऽच्छादनवर्जे यथायोगं विकारेऽवयवे च मयड् वा स्यात् | भस्ममयम् , भास्मनम् । अभक्ष्या-ऽऽच्छादन इति किम् ? मौद्गः सूप: , कार्पास: पट: ।।४६।। शर-दर्भ-कूदी-तृण-सोम-वल्वजात् ।६।२।४७॥ एभ्योऽभक्ष्या-ऽऽच्छादने विकारेऽवयवे च नित्यं मयट् स्यात् । शरमयम् , दर्भमयम् , कूदीमयम् , तृणमयम् , सोममयम् , वल्वजमयम् ।।४७|| __एकस्वरात् ।६।२।४८॥ अस्माद् भक्ष्या-ऽऽच्छादनवर्जे विकारेऽवयवे च नित्यं मयट् स्यात् । वाङ्मयम् ||४८॥ दोरप्राणिनः ।।२।४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy