SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । _ २३९ २३९ ब्रुवः ।।१५१॥ ब्रूगोऽचि बुंव् स्यात् । ब्राह्मणब्रुवः ॥५१|| नन्यादिभ्योऽनः ।५।११५२॥ एभ्यो नामगणदृष्टेभ्योऽन: स्यात् । नन्दनः , वासन: , सहन: , संक्रन्दनः , सर्वदमनः , नर्दनः ॥५२॥ ग्रहादिभ्यो णिन् ।५।११५३॥ एभ्यो णिन् स्यात् । ग्राही , स्थायी ॥५३॥ नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ।५।११५४॥ नाम्युपान्त्येभ्यो धातुभ्य: , प्रयादिभ्यश्च क: स्यात् । विक्षिपः , प्रिय: , किर: , गिरः , ज्ञः ||५४|| __ गेहे ग्रहः ।५।११५५॥ गेहेऽर्थे ग्रहे: क: स्यात् । गृहम् , गृहा: ।।५५|| उपसर्गादातो डोऽश्यः ।५।१५६॥ उपसर्गात् परात् श्यैङ्वर्जादाकारान्ताद्धातोर्ड: स्यात् । आह्व: । उपसर्गादिति किम् ? दाय: । अश्य इति किम् ? अवश्यायः ॥५६।। व्याघ्रा-ऽऽध्रे प्राणि-नसोः ।५।१५७॥ एतौ यथासङ्ख्यं प्राणिनि नासिकायां चार्थे प्रो डे निपात्येते । व्याघ्रः , आघ्रा ॥५७|| घ्रा-ध्मा-पा-ट्धे-दृशः शः ।५।१।५८॥ एभ्य: श: स्यात् । जिघ्रः , उद्धमः , पिबः , उद्धयः , उत्पश्य: ॥५८।। साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात् ।५।११५९॥ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः श: स्यात् । साहयः , सातयः , वेदयः , उदेजयः , धारयः , पारयः , चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता ॥५९|| लिम्प-विन्दः ।५।१६०॥ १. ब्रुवः P2 पासं२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy