SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २३८ स्वोपज्ञलघुवृत्तिविभूषितं ऋदुपान्त्याद् धातो: कृपि-चुति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपिचुदृच इति किम् ? कल्प्यम् , चर्त्यम् , अय॑म् ॥४१॥ कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा ।५।११४२॥ एभ्यः क्यप् वा स्यात् । कृत्यम् , कार्यम् ; वृष्यम् , वर्ण्यम् ; मृज्यम् , मार्यम् ; शस्यम् , शंस्यम् ; गुह्यम् ; गोह्यम् , दुह्यम् ; दोह्यम् , जप्यम् , जाप्यम् ।।४२॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के ।५।१४३॥ जेर्विपूर्वाभ्यां च पू-नीभ्यां यथासङ्ख्यं हलि-मुञ्ज-कल्केषु कर्मसु क्यप् स्यात् | जित्यो हलि: , विपूयो मुञ्जः , विनीय: कल्कः । हलि-मुञ्ज-कल्क इति किम् ? जेयम् , विपव्यम् , विनेयम् ॥४३|| पदा-ऽस्वैरि-बाह्या-पक्ष्ये ग्रहः ।५।११४४॥ एष्वर्थेषु ग्रहे: क्यप् स्यात् । प्रगृह्यं पदम् , गृह्याः परतन्त्राः , ग्रामगृह्या बाह्येत्यर्थः , गुणगृह्या गुणपक्ष्याः ॥४४॥ भृगोऽसंज्ञायाम् ।५।१४५॥ भृगोऽसंज्ञायां क्यप् स्यात् । भृत्य: पोष्यः । असंज्ञायामिति किम् ? भार्या पत्नी ॥४५॥ समो वा ।५।१४६॥ संपूर्वाद् भृग: क्यप् वा स्यात् । संभृत्यः , संभार्यः ॥४६॥ ते कृत्याः ।५।१४७॥ घ्यण-तव्या-ऽनीय-य-क्यप्प्रत्ययाः कृत्याः स्युः ॥४७|| णक-तृचौ ।५।११४८॥ धातोरेतौ स्याताम् । पाचकः , पक्ता ।।४८।। अच् ।५।१४९॥ धातोरच् स्यात् । करः , हरः ।।४९।। लिहादिभ्यः ।।११५०॥ एभ्योऽच् स्यात् । लेहः , शेष: ।।५०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy